________________
तं वै. प्र.
॥ ४३ ॥
आदानं लोकानां वर्त्तते मांसे चशब्दात् स्नसाशृङ्गादौ शशकमृगाणां ग्रहणं वर्त्तते, चमरीणां वालेषु ग्रहणं, द्वीपिकानां - चित्रकव्याघ्रादीनां चर्मनखेषु ग्रहणं, चशब्दादनेकतिरश्चामवयवग्रहणं वर्त्तते । को भावः ? - यथा गजादीनां तिरश्चां दन्तादिकं | सर्वेषां भोगाय भवति तथा मनुष्यावयवो न भोगाय भवति पश्चादतः कथ्यतेऽनेनादौ जिनधर्मों विधेय इति ॥ २१ ॥ 'पूइ० ' इह पूतिककाये - अपवित्रवपुषि च्यवनमुखे - मरणसम्मुखे नित्यकालविश्वस्तः- सदा विश्वासं गतः 'आइक्खसु ० ' आख्याहिकथय सद्भावं -हार्द 'किम्हिऽसि 'त्ति कस्मादसि गृद्धस्त्वं मूढो-मूर्खः, यद्वा हे मूढ ! - मूर्ख ब्रह्मदत्तदशमुखादिवत् ॥ २२ ॥ 'दंता० 'दन्ता अप्यकार्यकराः वाला अपि विवर्धमानाः सर्पवद् बीभत्सा भयङ्कराः चर्मापि बीभत्सं भण-कथय किं 'तसि० 'ति तस्मिन् शरीरे 'त' मिति त्वं रागं गतः ॥ २३ ॥ 'सिंभे' ति० कफे पित्ते - मायुषि मूत्रे - प्रस्रवणे गूथे- विष्ठायां 'वसाइ'त्ति वसायां स्वसायां 'दंतकुंडीसु'त्ति हड्डुभाजने, यद्वाऽनुस्वारोऽलाक्षणिकः दन्तकुड्यां, यद्वा 'दंतकुंडीसु' त्ति दंष्ट्रासु भण-कथय किमर्थं तवाशुचावपि वर्धितो रागः १ ॥ २४ ॥ ' जंघ० ' 'जंघट्टियासु ऊरू'त्ति जङ्घास्थिकयोरूरू प्रतिष्ठितौ 'पइट्टिया तट्टिया कडीपिट्ठी त्ति अत्रायं पदसम्बन्धः - तयोरूर्वोः स्थिता तत्स्थिता कटिः-श्रो णिर्भवति, कव्यां प्रतिष्ठिता स्थिता 'पिट्ठी'ति पृष्ठिर्भवति कय्यस्थिवेष्टितान्यष्टादश १८ पृष्ठ्यस्थीनि भवन्ति शरीरे इति ॥ २५ ॥ 'दो अ०' द्वेअक्ष्यस्थिनी भवतः, षोडश ग्रीवास्थिीनि ज्ञातव्यानि पृष्ठिप्रतिष्ठिताः द्वादश किलेति प्रसिद्धे पंशुल्यो भवन्ति ॥ २६ ॥ 'अट्टिय०' अस्थिभिः 'कढिणे' कठिनेऽस्थिकठिने यद्वा - कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन् शिरास्त्रसानां लध्वितराणां बन्धनं यत्र तत्तथा तस्मिन्, मांसचर्मलेपे विष्ठाकोष्ठागारे - वर्चस्कगृहोपमे
Jain Education International
For Private & Personal Use Only
शरीरविशेपासुन्दरता गा. ८५
११२
॥ ४३ ॥
Www.jainelibrary.org