SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ CAICOSASSROOSTEGHOSSEISHESS सुकुमालं तत्र स्नानमनेकधा क्षालनमुद्वर्त्तनं-पिष्टिकादिना मलोत्तारणं गुणाः-धूपनादिप्रकाराः यद्वा स्नानोद्वर्तनाभ्यां गुणास्तैर्मृदुत्वं गतं, पुष्पोन्मिश्रितकेशं-अनेककुसुमवासितकुन्तलं-एवंविधं तन्मुखं मस्तकं शरीरं वा बालस्य-मन्मथककेशवाणविद्धत्वेन गतसदसद्विवेक(स्य)विकलस्य जनयति-उत्पादयति राग-मन्मथपारवश्यं येन गुर्वादिकमपि न गणयति, नन्दिषेणाऽऽषाढभूतिमुन्यादिवत् ॥ १६ ॥ 'जं सी.' मन्दविज्ञाना-मन्मथग्रहग्रथिलीकृताः 'जंति यानि पुष्पाणिकुसुमानि शीर्षपूरक-मस्तकाभरणमिति भणंति' कथयन्ति पुष्पाण्येव तानि शीर्षस्य पूरकं शृणुत यूयमिति ॥१७॥ 'मेउव' मेदः-अस्थिकृत् वसा-विस्नसा चशब्दोऽनेकशरीरान्तर्गतावयवग्रहणार्थः रसिका-व्रणाद्युत्पन्ना खेले'त्ति कण्ठमुखश्लेष्मा 'सिंघाणए यत्ति नासिकाश्लेष्मा 'एयंति एतन्मेदादिकं 'छुभ'त्ति क्षुपध्वं-मस्तके प्रक्षेपयत अथ शीर्षपूरको 'भे' भवतां निजकशरीरे स्वाधीनः-स्वायत्तो वर्तते ॥ १८॥ "सा किर०' सा वर्चस्ककुटी-विष्ठाकुटीरिका 'किर'त्ति निश्चयेन दुष्प्रतिपूरा पूरयितुमशक्येत्यर्थः, किंभूता ?-द्विपदा नवच्छिद्रा, उत्कटगन्धविलिप्ता-तीव्रदुर्गन्धव्याप्ता, एवंविधा शरीरकुटी वर्तते, तां च बालजनो-मूर्खलोकः अतिमूछितं यथा स्यात् तथा गृद्धो-लम्पटत्वं गतः ॥ १९॥ कथं गृद्ध इत्याह-जं पेम०' यस्मात् प्रेमरागरक्ता-कामरागग्रथिलीकृतो लोकः 'अवयासेऊण'त्ति अवकाश्यप्रकाश्य-प्रकटीकृत्यर्थः 'गूढमुत्तोलिं'ति अपवित्रं रामाभगं पुंश्चिह्न वा जुगुप्सनीयं, दन्तानां मल:-पिप्पिका दन्तमलस्तेन सह 'चिक्कणंग' चिक्कणाझं-चिगचिगायमानमङ्गं-शरीरमालिङ्गय च शीर्षघटीकाञ्जिकं-कपालकपरखट्टरसं चुम्बनादिप्रकारेण 'पियसित्ति पिबसि, अतृप्तवत् धुंटयसि ॥२०॥ 'दंतमु०' गजानां दन्तमुशलेषु 'गहणं ति ग्रहणं तं.पै.प्र.८ in Education For Private Personel Use Only Law.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy