________________
Jain Education
कथम् ? - वकार इवार्थे, इवोत्प्रेक्षते, फुलं-प्रफुल्लं विकसितमित्यर्थः नीलोत्पलवनं - इन्दीवर काननम् ॥ ५ ॥ 'कित्तिय०' कियन्मात्रं - कियत्प्रमाणं 'वन्ने'त्ति वर्णयामि शरीरे - वपुषि किंभूते ? - अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये - गूथात्मके | इत्यर्थः, वर्चस्कसङ्घाते - परमापवित्रविष्ठा समूहे 'विरागमूले' त्ति विरुद्धो रागः विरागः मनोजराग इत्यर्थः तस्य मूलं - कारणं | कामासक्तानामङ्गारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो-गतो रागो - मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं कारणं, काष्ठश्रेष्ठेरिव ( श्रेष्ठिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्त्तव्यः, स्थूलभद्रवज्रखामिजम्बूस्वाम्यादिवत् ॥ ६ ॥ 'किमि० ' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे' त्ति अशुचिके - अपवित्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकर्तुमशक्यत्वात्, अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात्, असारे- सारव - जिते 'सेयमलपुवडंमि' त्ति दुर्गन्धस्वेद मलचिगचिगायमाने, एवंविधे शरीरे हे जीवाः ! यूयं निर्वेदं वैराग्यं ब्रजतगच्छत, विक्रमयशोन्नृपस्येवेति ॥ ७ ॥ 'दंतम ०' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थः लालामलबहुले एतादृशे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ? ॥ ८ ॥ ' को सड०' | देहे - शरीरे कः अभिलाषः - वाञ्छा ?, किंभूते ? - शटनपतन विकिरणविध्वंसनच्यवनमरणधर्मे, तत्र शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्रादेः खड्गच्छेदादिना विकिरणं-विनश्वरत्वं विध्वंसनं- रोगज्वरादिना जर्जरीकरणं च्यवनं - हस्तपादा||देर्देशक्षयः मरणं सर्वथा क्षयः, पुनः किंभूते ? - कुथित कठिन काष्ठभूते - विनष्टकर्कशदारुतुल्ये ॥ ९ ॥ 'कागसु०' देहे को रागः ?, किंभूते ? - काकश्वानयोः - घूकारिभषणयोः भक्ष्ये - खाद्ये कृमिकुलभते च व्याधिभक्ते च मत्स्यभक्के व वचिन्मन्छु
For Private & Personal Use Only
4514
www.jainelibrary.org