________________
344 -4 -54-4344454 34, No 3
समन्ततः-सर्वत्र रोमकूपै-रोमरन्धैः परिस्रवत्-गलगलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्धैः परिस्रवत् 'सर्य'ति स्वयमेवाशुचि-अपवित्रं 'सभावउत्ति स्वभावेन परमदुष्टगन्धीति 'कालिजयअंतपित्तजरहिययफोप्फसफेफसपिलिह'त्ति प्लीहा-गुल्म 'उदर'त्ति जलोदरं गुह्यकुणिम-मांसं नव छिद्राणि यत्र तत् तथा 'थिविथिवंत'त्ति द्रिद्रिगायमानं 'हिययत्ति हृदयं यत्र तत् परमयावत् हृदयं नव छिद्राणि तु नयनद्वयकर्णद्वयनासिकाद्वयजिह्वाशिश्नापानलक्षणानि 'दुरहित्ति दुर्गन्धानां पित्तसिंभमूत्रलक्षणानामौषधानामायतनं-गृहं सवौंषधायतनं, रोगादावस्मिन् सवौषधप्रक्षेपात्, सर्वत्र-सर्वभागे दुष्टोऽन्तो-विनाशःप्रान्तो वा यस्य तत् सर्वतोदुरन्तं, 'गुह्यो' गुह्योरुजानुजङ्घापादसङ्घातसन्धितं-उपस्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितं, अशुचिकुणिमस्य-अपवित्रमांसस्य गन्धो यत्र तदशुचिकुणिमगन्धि 'एवं चि०' एवं-पूर्वोक्तप्रकारेण चिन्त्यमानं बीभत्सदर्शनीयं भयङ्कररूपं 'अधुवं अनिययं असासयं'चेति पदत्रयस्य व्याख्या पूर्ववत्, 'सडण' शटनपतनविध्वंसनधर्म, तत्र शटनंकुष्ठादिनाऽङ्गुल्यादेः पतनं बाहादेः खङ्गच्छेदादिना विध्वंसनं-सर्वथा क्षयः एते धर्माः-स्वभावा यस्य तत्तथा, 'पच्छा व पुरा व अवस्स चइयत्वं'त्ति पूर्ववत् 'निच्छ०' निश्चयतः सुष्टु भृशं त्वं 'जाण'त्ति जानीहि एतन्मनुष्यशरीरं 'आइनिहणं ति आदिनिधनं सादिसान्तमित्यर्थः, ईदृशं पूर्ववर्णितं वक्ष्यमाणं वा सर्वमनुजाना-समस्तमनुष्याणां देहः-शरीरं एषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्त्वतः स्वभावः॥ अथ विशेषतः शरीरादेरशुभत्वं दर्शयति| सुकंमि सोणियमि य संभूओ जणणिकुच्छिमझमि । तं चेव अमिज्झरसं नवमासे घुटियं संतो ॥१॥
रादिनिधनं सांति पूर्ववत् 'निच्छादिना विध्वंसनं-सर्वथा सडण भटनपतनाव
Jain Education Hall
For Private Personel Use Only
aw.jainelibrary.org