SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ है 'अच्छिणित्ति अक्षिणी-लोचने 'अंधिज्जति'त्ति अन्धीभवत इत्यर्थः ॥२॥ तथा 'आउसो' हे आयुष्मन् ! अस्मिन् प्रत्यक्षे शरीरे षट्यधिकं शतं शिराणां नाभिप्रभवाणां तिर्यग्गामिनीनां हस्ततले उपागतानां भवति, यासां निरुपघातेन-निरुपद्रवेण बाहुबलं भवति, तासां चैव 'से' तस्योपघातेन-उपद्रवेण पार्श्ववेदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं ★ च भवति, तथा 'आउ०' हे आयुष्मन् ! अस्य जन्तोः षष्ट्यधिकं शतं शिराणां नाभिप्रभवाणामधोगामिनीनां गुदप्रविष्टानां भवति, यासां निरुपघातेन-उपद्रवाभावेन मूत्रपुरीषवातकर्म-प्रस्रवणकर्म विष्ठाकर्म वायुकर्म प्रवर्त्तते, मूत्रादिकं सुखेन कतुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिराणामुपघातेन मूत्रपुरीषवातनिरोधो भवति, निरोधेनाीसिगुदाकुराः 'हरस' इति लोकोक्तिः क्षुभ्यन्ति-क्षोभं यान्ति, परमपीडाकरं रुधिरं मुञ्चन्तीत्यर्थः, भवभावनोक्तकालर्षिवत् पाण्डुरोगश्च भवति, तथा 'आउसो' हे आयुष्मन् ! अस्य जन्तोः पञ्चविंशतिः शिराः 'सिंभधारिणी'त्ति श्लेष्मधारिण्यो भवन्ति, 'पंच' पञ्चविंशतिःशिराः पित्तधारिण्यः, दश शिराःशुक्रधारिण्यः, 'सत्तसि.' पुरुषस्योक्तप्रकारेण सप्त शिराशतानि भवन्ति, कथम् ?,शरीरेऊर्ध्वगामिन्यः १६० अधोगामिन्यः १६० तिर्यग्गामिन्यः १६० अधोगामिन्यो गुदप्रविष्टाः १६० श्लेष्मधारिण्यः २५ पित्तधारिण्यः २५ शुक्रधारिण्यः १० एवं सर्वाः ७००शिराः भवन्ति पुरुषाणां शरीर इति । 'तीसू० पुरुषोक्ताः यास्तास्त्रिंशदूनाः स्त्रियाः भवन्ति, सप्तत्यधिकानि षट् शतानि भवन्तीत्यर्थः ६७०, 'वीसू०' पुरुषोक्ता | यास्ताः विंशत्यूनाः पाण्डकस्याशीत्यधिकानि षट् शतानि भवन्तीत्यर्थः ६८०॥ अथ शरीरे रुधिरादिमानमाह-'आउसो' हे आयुष्मन् ! अस्य जन्तोः रुधिरस्याढकं भवति, वसाया अर्धाढकं, 'मत्थुलिंगस्सेति मस्तकभेजकस्य फिप्फिसादेवा Q w w.jainelibrary.org Jain Education For Private & Personal Use Only
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy