________________
वृषभशरीरवत् , विप्रणाशो-विनश्वरो धर्मः-स्वभावो यस्य तद् विप्रणाशधर्म, 'पच्छा वत्ति पश्चाद् विवक्षितकालात् परतः 'पुरा वत्ति विवक्षितकालात् पूर्व च, यद्वा 'पच्छा पुरा यत्ति पाठे तु विवक्षितकालस्य पश्चात्पूर्व च सर्वदेवेत्यर्थः, अवश्यं विप्पचइयत्वं'ति विप्रत्यक्तव्यं त्याज्यमित्यर्थः । 'एयस्सवि याईति एतस्य एतस्मिन्नपि च वा वपुषः वपुषि वा 'आई'ति वाक्यालङ्कारे 'आउसो'त्ति हे आयुष्मन् ! आनुपूर्व्या-अनुक्रमेणाष्टादश पृष्ठिकरण्डकस्य-पृष्ठिवंशस्य सन्धयोग्रन्थिरूपा भवन्ति, यथा वंशस्य पर्वाणि, तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादश पांशुलिकाः निर्गत्योभयपाङवावृत्य वक्षःस्थलमध्योर्ध्ववर्त्यस्थिनि लगित्वा पल्लकाकारतया परिणमन्ति, अत आह-'बारस'
शरीरे द्वादश पांशुलिकारूपाः करण्डका:-वंशका भवन्ति, तथा 'छप्पंसु०' तस्मिन्नेव पृष्ठिवंशे शेषषट्सन्धिभ्यः षट् जापांशुलिका निर्गत्य पार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षःपञ्जरादधस्तात् शिथिलकुक्षेस्तूपरिष्टात्परस्परासंमिलितास्ति-15 ष्ठन्ति, अयं च कटाह इत्युच्यते, द्वे वितस्ती कुक्षिर्भवति, चतुरङ्गुलप्रमाणा ग्रीवा भवति, तौल्येन मगधदेशप्रसिद्धपलेन चत्वारि पलानि जिह्वा भवति, अक्षिमांसगोलकोद्वे पले भवतः, चतुर्भिः कपालैः-अस्थिखण्डरूपैः शिरो भवति, मुखेऽशुचिपूर्णे प्रायो द्वात्रिंशद्दन्ता अस्थिखण्डानि भवन्ति, 'सत्तंगुरू' जिहा-मुखाभ्यन्तरवर्तिमांसखण्डरूपा दैयेणात्माङ्गलतः सप्ताङ्गला भवति 'अछुट्ट' हृदयान्तरवर्ति मांसखण्डं सार्धपलत्रयं भवति, 'पणवी० कालिज' वक्षोऽन्तपेढमांसविशेपरूपं पञ्चविंशतिः पलानि स्युः, द्वे अत्रे प्रत्येकं पञ्चपञ्चवामप्रमाणे प्रज्ञप्ते जिनैः, तद्यथा-स्थूलान्नं १ तन्वन्त्रं २, तत्र यत् तत् स्थूलात्रं तेनोच्चारः परिणमति, तत्र च यत्त वत्रं तेन प्रस्रवणं-मूत्रं परिणमति, 'दो पा' द्वे पार्श्वे प्रज्ञप्ते, तद्यथा
तं.वै.प्र.७
Jain Education INTEonal,
।
For Private & Personal Use Only
T
w w.jainelibrary.org