SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तं. पै. प्र. ॥ ३६ ॥ Jain Education | मनसोऽभिरामं मनोऽभिरामं सनत्कुमारचत्रिवत् स्थैर्य - स्थैर्यगुणयोगात् वैश्वासिकं - विश्वासस्थानं संमतं तत्कृतकार्याणां | संमतत्वात् बहुमतं बहुष्वपि कार्येषु बहुर्वाऽनल्पतया - अस्तोकतया मतं बहुमतं अनु - विप्रियकरणात् पश्चान्मतमनुमतं | भाण्डकरण्डकसमानं - आभरणभाजनतुल्यमादेयमित्यर्थः रत्नकरण्डक इव सुसंगोपितं वस्त्रादिभिः 'चेलपेटेव-वस्त्रमञ्जूषेव सुष्ठु संपरिवृतं निरुपद्रवे स्थाने निवेशितं, गृहस्थावस्थास्थशालिभद्रवपुर्वत्, तैलपेटेव-तैलगोलिकेव सुसंगोपितं भङ्गभयात्, 'तेलकेला इव सुसंगोविय'त्ति पाठान्तरं तैलकेला तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्ठु सोप्यासङ्गोपनीया भवति अन्यथा लुठति ततश्च तैलहानिः स्यादिति, ' मा णं०' माशब्दो निषेधार्थः 'णं' वाक्यालङ्कारे अथवा 'मा णं'ति मा इदं शरीरमिति व्याख्येयं ततः सर्वेऽप्युष्णादयो मा स्पृशन्तु 'छ्यंतु' भवन्त्वित्यर्थः, 'तिकडु' इतिकृत्वा, अथवेत्यभिसन्धाय पालितमिति शेषः, तत्रोष्मत्वं- ग्रीष्मादावुष्णत्वं शीतं - शीतकाले शीतत्वं व्यालाः- श्वापदाः सर्पा वा क्षुद्- बुभुक्षा पिपासा - तृषा चौराः - निशाचराः दंशाः मशकाः एते विकलेन्द्रियजन्तुविशेषाः वातिकपैत्तिकश्लेष्मिकसान्निपातिका विविधरोगातङ्काः रोगाः - कालसहा व्याधयः आतङ्काः -त एव सद्योघातिनः 'एवंपि याइ 'न्ति एव - | मुक्तप्रकारेण अपिचेत्यभ्युच्चये 'आई' इति वाक्यालङ्कारे, इदं शरीरं न ध्रुवमध्रुवं सूर्योदयवत् न प्रतिनियतकालेऽवश्यंभावि अनियतं - सुरूपादेरपि कुरूपादिदर्शनात् हरितिलकराजसुतविक्रमकुमारशरीरवत् अशाश्वतं - क्षणं क्षणं प्रति विनश्व| रत्वात् सनत्कुमारशरीरवत् 'चयावचइयं'ति इष्टाहारोपभोगतया धृत्युपष्टम्भादौदा रिकवर्गण परमाणूपचयाच्चथस्तद| भावे तद्विचटनादपचयः चयापचयौ विद्येते यस्य तच्चयापचयिकं पुष्टिगलनस्वभावमित्यर्थः, करकंडुप्रत्येक बुद्धवैराग्य हेतु For Private & Personal Use Only पृष्ठकरण्ड कादिगण - ना सू. १६ ॥ ३६ ॥ jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy