________________
CASSASSAMACROSCALCOCOGE
तयन्तो वर्तन्ते ४, ज्योतिषिकाः सूर्यमण्डलमिव स्वतेजसा सर्वमपि भासयन्तः सन्तीति ५, चित्राङ्गेषु माल्यमनेकप्रकारसरससुरभिनानावर्णकुसुमदामरूपं भवति ६, चित्ररसाः भोजनार्थाय भवन्ति, कोऽर्थः ?-विशिष्टदलिककलमशालिशालनकाः पक्वान्नप्रभृतिभ्योऽतीवापरिमितस्वादुतादिगुणोपेतेन्द्रियवलपुष्टिहेतुस्वादुभोज्यपदार्थपरिपूर्णैः फलमध्यैविराजमानाश्चित्ररसाः संतिष्ठन्ते इति ७ मण्यङ्गेषु वराणि भूषणानि विस्रसापरिणतानि कटककेयूरकुण्डलादीन्याभरणानि भवन्ति ८, गेहाकारनामकेषु कल्पद्रुमेषु विस्रसापरिणामत एव प्रांशुप्राकारोपगूढसुखारोहसोपानपङ्किविचित्रचित्रशालोचितकान्तानि अनेकसमप्रकटापवरककुट्टिमतलाधलङ्कृतानि नानाविधानि निकेतनानि भवन्ति ९, अनग्नेषु कल्पपादपेषु अत्यर्थ बहुप्रकाराणि वस्त्राणि विस्रसात एवातिसूक्ष्मसुकुमारदेवदूष्यानुकाराणि मनोहारीणि निर्मलानि उपजायन्त । इति १०। 'पुढविपुप्फे ति पृथिवीपुष्पफलाहाराः पृथिवी पुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा, 'ते मणुयगणा' ते मनुजगणाः-युगलधार्मिकवृन्दाः 'ण' वाक्यालङ्कारे प्रज्ञप्ता जगदीश्वरैः, यदुक्तं जीवाभिगमवृत्ती हे भगवन् ! पृथिव्याः कीदृशः आस्वादः?, भगवानाह-हे गौतम ! यथा गोक्षीरं चातुरक्यं-चतुःस्थानपरिणामपर्यन्तं, तच्चैवं-गवां पुण्डूदेशोद्भवेक्षुचारिणीनां अनातङ्कानां कृष्णानां यत्क्षीरं १ तदन्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते २ तत्क्षीरमप्येवंभूताभ्योऽन्याभ्यः ३ तत्क्षीरमप्यन्याभ्यः ४ इति चतुःस्थानपरिणामपर्यन्तं, अन्ये त्वेवमाहुः-पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमद्धार्द्धक्रमेण दीयते यावदेकस्याः क्षीरं तच्चातुरक्यमिति, एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीतं मन्दाग्निकथितं, इतोऽपि पृथिव्याः आस्वादः इष्टतर इति, कल्पपादपसत्कानां पुष्पफलानां तु कीदृश आस्वादः,
ACCAUCAUNCACLOSUGARCASTOCOM
JainEducational
For Private
Personel Use Only
ww.jainelibrary.org