SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education छष्णउअंगुलाई से एगे अक्खेति वा दंडेति वा धणुति वा जुएति वा मुसलेति वा नालियाति वा, एतेणं धणुप्पमाणेणं दो धणुस्सहस्साई गाउयमिति । तथा ते प्रथमारकमनुष्याः षट्पञ्चाशदधिकद्विपृष्ठकरण्डकशताः प्रज्ञप्ताः तीर्थङ्करैरिति, तथा तुवरीप्रमाणाहाराः षण्मासावशेषे आयुषि स्त्रीपुरुषयुगलप्रसवाः एकोनपञ्चाशद्दिनापत्यपालका दिनत्रये | आहारेच्छा : १, द्वितीयारके तु द्विक्रोशोच्चाः १२८ पृष्ठकरण्डकाः चतुःषष्टिदिनापत्यपालकाः बदरप्रमाणाहारकाः दिनद्वये आहारेच्छवः २, तृतीये अरके क्रोशोच्चाः ६४ पृष्ठकरण्डकाः ७९ दिनापत्यपालका : आमलकप्रमाणाहारकाः एकान्तराहारेच्छकाः ३, षट्पञ्चाशदन्तद्वीपे तु मनुष्याः अष्टधनुःशतप्रमाणशरीरोच्छ्रयाः चतुर्थाशिनः | चतुःषष्टिपृष्ठ करण्डकाः एकोनाशीतिदिनानि कृतापत्यरक्षा ः पल्योपमासंख्येयभागायुषः, तथा सर्वेऽपि युगलजीवाः निजायुः समे देवे हीनायुषि देवे वा उत्पद्यन्ते, सर्वयुगलजीवाः हस्त्यश्वकरभगोमहिष्यादीनां सद्भावेऽपि तत्परिभोगपराङ्मुखाः सत्यपि मणिकनकमौक्तिकादिके ममत्वाभिनिवेशरहिताः युगलक्षेत्रे विस्रसात एव शाल्यादीनि धान्यादीन्युपजायन्ते परं न ते मनुष्यादीनां परिभोगाय, दंशमशकयूकादयः चन्द्रसूर्योपरागादयश्च न भवन्तीति । तथा ते मनुष्याः 'णं' वाक्यालङ्कारे प्रकृत्या - स्वभावेन भद्रकाः परानुपतापहेतु कायवाङ्मनश्चेष्टाः प्रकृत्या - स्वभा | वेन न तु परोपदेशतः विनीताः - विनययुक्ताः प्रकृतिविनीताः प्रकृत्या उपशान्ताः प्रकृत्युपशान्ताः प्रकृत्यैव प्रतनव:अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदु- मनोज्ञं परिणामसुखावहं यन्मार्दवं तेन| सम्पन्नाः मृदुमार्दवसम्पन्नाः न कपटमार्दवोपेता इत्यर्थः, आ-समन्तात् सर्वासु क्रियासु लीना-गुप्ता आलीनाः - नोल्ब tional For Private & Personal Use Only www.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy