________________
चन्द्रादित्यादिचिहौ अच्छिद्रजालौ-अविरलाङ्गलिसमुदायौ पाणी-करौ येषां ते तथा, पीवराः-उपचितां वृत्ताः-वर्तुलाः सुजाता:-सुनिष्पन्नाः कोमलाः वराः अङ्गल्यः-करशाखा येषां ते तथा, ताम्रा:-अरुणाः तलिना:-प्रतला: शुचयः-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षाः नखा-नखराः येषां ते तथा, चन्द्र इव पाणिरेखा-हस्तरेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शंखपाणिरेखाः स्वस्तिकपाणिरेखाः चक्रपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तता. प्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-शशिरविशङ्खचक्रस्वस्तिकरूपाः विभका-विभागवत्यः सुविरचिताः-सुकृताः पाणिषु रेखाः येषां ते तथा, वरमहिषवराहसिंहशार्दूलवृषभनागवरवत् विपुलौ-प्रतिपूर्णी उन्नती-तुगौ मृदुको-कोमलौ द्वौ स्कन्धौ | येषां ते तथा वरमहिषः-सैरभेयावराहः-शूकरः शार्दूलो-व्याघ्रः नागवरो-गजवरः, चत्वार्य झुलानि स्वाङ्गुलापेक्षया सुष्टु प्रमाण यस्याः कम्बुवरेण च-प्रधानशङ्खन सदृशी-उन्नतत्ववलित्रययोगाभ्यां समाना ग्रीवा-कण्ठो येषां ते तथा, अवस्थितानिन हीयमानानि न वर्द्धमानानि सुविभक्कानि चित्राणि च-शोभया अद्भुतभूतानि श्मश्रुणि-कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु-चिबुकं येषां ते तथा, 'ओयविय'त्ति परिकर्मितं यच्छिलाप्रवाल-विदुमं बिम्बफलं-गोल्हाफलं तत्सन्निभः सदृशोरक्तत्वेन अधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलं-चन्द्रखण्डं तद्वत् विमल:-आगन्तुकमलरहितः निर्मलः-स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् 'कुंद'त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत्-पद्मिनीमूलवत् धवला दन्तश्रेणिः-दशनपतिर्येषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजिरहितदन्ताः अविरलदन्ताः सुलिग्धदन्ताः-अरूक्षदन्ताः सुजातदन्ताः-सुनिष्पन्नद्
NAGARIKAAKAKA4%
Jan Education
For Private Personel Use Only
jainelibrary.org