SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ तं. वै. प्र. ॥२२॥ CASNA 'अकरंडय'त्ति मांसोपचितत्वादविद्यमानपृष्ठिपार्धास्थिकमिव कनकरुचकं-काश्चनकान्ति निर्मलं-स्वाभाविकमलरहित युगलिकआगन्तुकमलरहितं च सुजातं-सुनिष्पन्नं निरुपहतं-रोगादिभिरनुपहतं देह-शरीरं धारयन्ति येते तथा, 'पस-दास्वरूपं सू. स्थवत्तीस.' छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ दामिणी रूढिगम्यं ५ कमण्डलु ६ कलशः ७ वापी८ स्वस्तिकः |९ पताका १० यवः ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकरध्वजः१५ अङ्को-मृगः १६ स्थालं १७ अङ्कशः १८चूतफलक १९ स्थापन २० अमरः २१ लक्ष्म्या अभिषेकः २२ तोरणं २३ मेदिनी २४ समुद्रः २५ प्रधानमन्दिरं २६ गिरिवरः२७ वरदर्पणः२८ लीलायमानगजः२९ वृषभः ३० सिंहः३१ चामरं ३२, एतानि प्रशस्तानि द्वात्रिंशलक्षणानि धारयन्ति येते तथा, कनकशिलातलमिव उज्ज्वलं प्रशस्तं समतलं-अविषमरूपं उपचितं-मांसलं विस्तीर्णपृथुल-अतिविस्तीर्ण वक्षोहृदयं येषां ते तथा, श्रीवत्सेन अङ्कितं वक्षो येषांते तथा, पुरवरस्य परिघा-अबद्धा अर्गला तद्वत् वर्तितौ-वृत्तौ भुजौ-बाहू येषां ते तथा, भुजगेश्वरो-भुजगराजः तस्य विपुलो-महान् यो भोगः-शरीरं तद्वत् आदीयत इत्यादान:-आदेयो रम्यो यः परिघ:-अर्गला उच्छृढ'त्ति स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दीघौ बाहू येषां ते तथा,युगसन्निभौ-यूपसदृशौ पीनौमांसलो रतिदौ-रमणीयौ पीवरौ-महान्तौ प्रकोष्ठौ-कलाचिकादेशी, तथा संस्थिताः-संस्थान विशेषवन्तः उपचिताः-सुनिचिताः घनाः-बहुप्रदेशाः स्थिराः-सुबद्धा स्नायुभिः सुष्टु बद्धाः सुवृताः-अतिशयेन वर्तुलाः सुश्लिष्टाः-सुघनाः लष्टाः-मनोज्ञाः पर्वसन्धयश्च-पर्वास्थिसंधानानि येषां ते तथा, रक्ततलो-लोहिताधोभागी 'उबचिय'त्ति औपचयिको उपचयनिवृत्तौ उपचितौ वा मृदुकौ-कोमलौ मांसवन्तौ सुजाती-सुनिष्पन्नौ लक्षणप्रशस्तौ-प्रशस्तस्वस्तिकचक्रगदाशंखकल्पवृक्ष Jain Educate For Private Personel Use Only PMw.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy