________________
ते तथा, आकीर्णहय इव-जात्याश्व इव निरुपलेपाः-तथाविधमलविकलाः, प्रमुदितो-हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण-अतिशयेन वर्तिता-वर्तुला कटिर्येषां ते तथा, 'साहय'त्ति संहृतं-संक्षिप्तं यत् सोणंद त्रिकाष्ठिकामध्य मुशल-प्रतीतं दर्पणो-दर्पणगण्डो विवक्षितः 'निगरिय'त्ति सर्वथा शोधितं सारीकृतमित्यर्थः यद् वरकनकं तस्य यत् 'छरुत्ति खड्गादिमुष्टिः स च (ततः) एतद्वन्द्वस्तैः सदृशो यः, वरवज्रवद्वलितःक्षामो-वलित्रयोपेतो मध्यभागो येषां ते तथा, गङ्गावर्तक इव प्रदक्षिणावर्ती-दक्षिणावर्ती तरङ्गैरिव तरङ्गैः-तिसृभिर्वलिभिर्भरा तरङ्गभङ्गरा रविकिरणैस्तरुणंअभिनवं तत्प्रथमतया तत्कालमित्यर्थः बोधितं-विकासितं 'विकोसायंत'त्ति विगतकोशं कृतं यत् पङ्कजं तद्वत् गम्भीरा विकटा चनाभिर्येषां ते तथा, 'उजुय' ऋजुकानां-अवक्राणां समानानामायामादिप्रमाणतः 'सहिय'त्ति संहितानाम्-अविरलानां सुजातानां जात्यानां-स्वाभाविकानां तनूना-सूक्ष्माणां कृष्णानां-कालवर्णानां अथवा कृत्स्नानां-अभिन्नानां स्निग्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहानां-मनोज्ञानांसुकुमारमृदूनां-अत्यंतकोमलानां रमणीयानां च रोम्णांतनुरुहाणां राजिः-आवलिर्येषां ते तथा, झषविहगयोरिव-मत्स्यपक्षिणोरिव सुजाती-सुभूतौ पीनौ-उपचितौ कुक्षी-जठरदेशौ येषां ते तथा, 'झपोदरा' इति प्रतीतं पद्मवद् विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्यन पाठादिति, सङ्गतपा:-युक्तपार्धाःसन्नतौ-अधोऽधोनमन्तौ पाश्वौं येषां ते सन्नतपार्धाः अत एव सुन्दरपार्थाः सुजातपाः पार्श्वगुणोपेतपाः इत्यर्थः मितौ-परिमितौ मातृकौ-मात्रोपेतौ एकार्थपदद्वययोगादतीव मानान्वितौ नोचितप्रमाणाधीनाधिको पीनौ-उपचितौ रतिदौ-रमणीयौ पाश्वौं येषां ते मितमातृकपीनरतिदपार्था इत्यर्थः
Jain Educatio
n
al
For Private & Personel Use Only
Www.jainelibrary.org