________________
तं. वै. प्र.
॥ २१ ॥
कलक्षणानि - स्वस्तिकादीनि धारयन्तीति भोगलक्षणधराः सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि - अवयवाः यत्र तदेवंविधं सुन्दरं अङ्गं शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'रत्तुप्पल पउमकर चरण कोम लंगुलितल' त्ति रक्तोत्पलवत् करचरणानां कोमला अङ्गुल्यो येषां ते तथा, तथा पद्मवत् करचरणानां कोमलानि तलानि - अधोभागा येषां ते तथा, नगः- पर्वतः नगरं प्रतीतं मकरो - मत्स्यः सागरः- समुद्रः चक्रं प्रतीतं अङ्कधरः- चन्द्रः अङ्कः- तस्यैव लाञ्छनं मृगः एवंरूपैर्लक्षणैरङ्कितानि तलानि - पादाघोभागाः येषां ते तथा, सुप्रतिष्ठिताः - सत्प्रतिष्ठानवन्तः कूर्मवत्- कच्छपवत् चारवः चरणा येषां ते तथा, आनुपूर्व्या परिपाट्या वर्द्धमाना हीयमाना वा इति गम्यते, सुजाताः - सुनिष्पन्नाः पीवराः अङ्गुलिकाः - पादाग्रावयवाः येषां ते तथा, उन्नताः तुङ्गाः तनवः - प्रतलाः ताम्रा - अरुणाः स्निग्धाः - कान्ति मन्तो नखा येषां ते तथा, संस्थितौ - संस्थानविशेषवन्तौ सुश्लिष्टौ - मांसलौ गूढौ - मांसलत्वादनुपलक्ष्यौ गुल्फौ -घुटकौ येषां ते तथा, आनुपूर्व्येण परिपाव्या वर्धमाना हीयमाना वा इति गम्यते, एणी-हरिणी तस्याश्चेह जङ्घा ग्राह्या, कुरुविन्दं-तृणविशेषः वत्ता च -सूत्रवलनकं एतानीव वृत्ते वर्तुले आनुपूर्व्येण स्थूलस्थूलत्वेनेति गम्यं, ज-प्रसृते येषां ते तथा समुद्गस्येव-समुद्गकपक्षिण इव निमग्ने - अन्तः प्रविष्टे गूढे - मांसलत्वादनुपलक्ष्ये जानुनी - अष्ठीवन्तौ येषां ते तथा, गजो-हस्ती 'ससण'त्ति श्वसिति - प्राणिति अनेनेति श्वसनः - शुण्डादण्डः गजस्य श्वसनः गजश्वसनस्तस्य सुजातस्य- सुनिष्पन्नस्य सन्निभे-सदृशे ऊरू येषां ते तथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः सदृशो विक्रमः - पराक्रमो विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, सुजातवरतुरगस्येव सुगुप्तत्वेन गुह्यदेशो लिङ्गलक्षणोऽवयवो येषां
Jain Educational
For Private & Personal Use Only
युगलिकस्वरूपं सू.
१४
॥ २१ ॥
jainelibrary.org