________________
Jain Education
छप्पण्णगपिट्टिकरंडयसया पण्णत्ता समणाउसो ! ते णं मणुया पगइभदया पगइविणीया पगइउवसंता पगइपयशुकोह माणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दया विणीया अपिच्छा असंनिहिसंचया अचंडा असिमसिकिसिवाणिज्जविवज्जिया विडिमंतरनिवासिणो इच्छिय कामकामिणो गेहागाररुक्खकयनिलया पुढविपुष्पफलाहारा ते णं मणुयगणा पण्णत्ता (सूत्रं १४ )
'आसीय खलु' आसन् - चशब्दात् संति भविष्यन्ति च खलु निश्चये हे आयुष्मन् ! - हे गणिगुणगणधर ! पूर्व - पूर्वस्मिन् काले प्रथमद्वितीयतृतीयचतुर्थारकेषु यथासम्भवं मनुजाः - नराः रोगो - व्याधिः स चासावातङ्कश्च रोगातंकः व्यपगतो रोगातङ्के येषां ते व्यपगतरोगातङ्काः यद्वा रोगश्च ज्वरादिः आतङ्कश्च - सद्यः प्राणहारी शूलादी रोगातङ्कौ तौ व्यपगतौ येषां ते तथा, बहुवर्षशतसहस्रजीविनः, तद्यथा - युगलधार्मिकाः अर्हन्तः - तीर्थङ्कराश्चक्रवर्त्तिनः बलदेवा - वासुदेवज्येष्ठबान्धवः वासुदेवाः- बलदेवलधुबान्धवा स्त्रिखण्डभोक्तारः चारणाः - जङ्घाचारणविद्याचारणलक्षणाः विद्यां धारयन्तीति विद्याधराः नमिविनम्याद्याः । 'ते ण'मिति णं वाक्यालङ्कारे ते युगलधार्मिका अर्हदादयो मनुजाः - मनुष्याः 'अणइवरे 'ति अतीव - अतिशयेन 'सोमं' दृष्टिसुभगं चारु रूपं येषां ते तथा यद्वा 'अणवइरसोमचारुरूव'त्ति अतीति अव्ययमतिक्रमार्थे न अति अनति सौम्यं च तच्चारु च सौम्यचारु सौम्यचारु च तद्रूपं च सौम्यचारुरूपं वरं च | तत्सौम्यचारुरूपं च वरसौम्यचारुरूपं अनतीति - अनतिक्रान्तं वरसौम्यचारुरूपं येषां ते अन तिवर सौम्यचारुरूपाः, | देवैरपि स्वलावण्यगुणादिभिरजितरूपा इत्यर्थः, भोगैरुत्तमाः भोगोत्तमाः सर्वोत्तमभोगभोकार इत्यर्थः, भोगसूच
ional
For Private & Personal Use Only
w.jainelibrary.org