________________
तं. वै. प्र. ॥ १८ ॥
Jain Education
शिंतो धर्मः सुष्ठुतरं-विशेषतः कर्त्तव्यो नन्दिषेणपूर्व भवब्राह्मणजीववदिति ॥ १५ ॥ 'नंदमा ०' नन्दमानः - सौख्यं भुञ्जानो धर्म जिनोक्तं चरेत् कुर्यादित्यर्थः किंभूतं धर्म ? - वरं श्रेष्ठं शिवप्रापकत्वात् कया भावनया धर्म कुर्यादित्याह- मे मम अत्र भवे परभवे च 'लष्टतरं' अतिकल्याणं भवेदिति भावनयेति, अनन्दमाणोऽवि - अनन्दन्नपि सौख्यमभुञ्जानोऽपि धर्म कुर्यात्, कया भावनयेत्याह - मे - मम पापतरं मा भवतु एकं तावदहं पापफलं भुंजे पुनर्धर्मा करणे मा भवतु मेऽतिपापफलमिति भावनयेति ॥ १६ ॥ किंच - 'नवि जा०' नरं पुरुषं वाशब्दाद् बालादिभेदभिन्नं नारीं स्त्रियं वाशब्दात् क्लीवं जातिः - मातृपक्षः ब्राह्मणादिका जातिर्वा कुलं- पितृपक्षः उग्रभोगादिकं कुलं वा विद्या वा सुशिक्षिता-सदभ्यस्ता वा नापीति-नैव तारयति - भवाब्धितीरं प्रापयति, सर्व स्वर्गापवर्गादिसौख्यं पुण्यै:- संविग्नसाधुदानादिभिर्वर्धते - प्राप्यते इत्यर्थः, अत्रान्यत्रापि वकारचकारापिशब्दाः यथायोगं पूरणसमुच्चयादिकेऽर्थे ज्ञातव्या इति ॥ १७ ॥ 'पुन्नेहिं' पुण्यैः - अन्नपानवस्त्रपीठफलकौषधादिभिः साधुदानादिभिरुपार्जितशुभफलैः हीयमानैः क्षयं गच्छद्भिः पुरुषकारः - पुरुषाभिमानः अपिशब्दादन्यदपि यशःकीर्त्तिस्फीतिलक्ष्म्यादिकं हीयते - शनैः शनैः क्षयं यातीत्यर्थः पुण्यैः वर्द्धमानैः पुरुषकारोऽपि वर्द्धते ॥ १८ ॥
पुन्नाई खलु आउसो ! किच्चाई करणिजाई पीइकराई वन्नकराई धणकराई कित्तिकराई, नो य खलु आउसो ! एवं चिंतियां- एस्संति खलु बहवे समया १ आवलिया २ खणा ३ आणापाणू ४ धोवा ५ लवा ६ मुहुत्ता ७ दिवसा ८ अहोरत्ता ९ पक्खा १० मासा ११ रिक १२ अयणा १३ संवच्छरा १४ जुगा
For Private & Personal Use Only
पुण्यकार्येSनालस्य सू. १३
11 26 11
w.jainelibrary.org