SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Jain Educatio | हापनी ६, प्रपञ्चयति - विस्तारयति खेलकासादि इति प्रपञ्चा ७, प्राग्भारं - ईषदवनतमुच्यते तदिव गात्रं यस्यां सा - प्राग्भारा ८, मोचनं मुक् जराराक्षसी समाक्रान्तशरीरगृहस्य मोचनं तं प्रति मुखं - आभिमुख्यं यस्यां सा मुन्मुखी ९, स्वापयति-निद्रायत्तं करोति सा शायिनी दशमी १०, एताः कालोपलक्षिताः दशाः कालदशाः उच्यन्ते इति ॥ १॥ अथ सूत्रेणैव दश दशा दर्शनन्नाह' - 'जायमि० ' श्लोकः, जातमात्रस्य जन्तो:- जीवस्य या सा प्रथमिका दशा-दशवर्षप्रमाणावस्था 'तत्थ'त्ति तस्यां प्रथमदशायां प्रायेण सुखं दुःखं वा नेति - नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानंति बालकाः - जातिस्मरणादिज्ञानविकला इति ॥ १ ॥ 'बीईयं च द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभिः क्रीडति-क्रीडां करोतीत्यर्थः, 'से' तस्य द्वितीयाऽवस्थावर्त्तिनो जीवस्य कामौ च - शब्दरूपे भोगाश्च - गन्धरसस्पर्शाः कामभोगास्तेषु तीव्रा - प्रबला रतिः - मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः ॥ २ ॥ 'तइयं च' तृतीयां दशां प्राप्तः पञ्चकामगुणे - शब्दरूपरसगन्धस्पर्शलक्षणे नरो-मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थो भवति यदि 'से' तस्य जीवस्य अस्तीति - सत्तारूपतया वर्त्तते गृहे स्वावासे 'धुवे'ति राजाद्युपद्रवाभावेन निश्चला समृद्धिरिति | शेषः ॥ ३ ॥ 'चउ०' चतुर्थी बलानाम्नी दशा वर्तते यां बलानाम्नीं दशामाश्रितो नरः समर्थो भवति बलं स्ववीर्य द्रष्टुं ( दर्शयितुं ) फलिमल्लवत्, यदि भवेत् निरुपद्रवो - रोगादिक्केशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं यातीति ॥ ४ ॥ 'पंचमी उ' पञ्चर्मी दशां प्राप्तः आनुपूर्व्या-परिपाठ्या यो नरः स समर्थो भवति अर्थं विचिन्तयितुं - द्रव्यचिन्तां कर्तुं च पुनः कुटुम्बं प्रति अभिगच्छति - कुटुंब चिन्तायां प्रवर्त्तते इत्यर्थः ॥५॥ 'छुट्टी उ' षष्ठी हापनीनाम्नी दशा वर्त्तते, tional For Private & Personal Use Only ww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy