SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ SSAGAROGROGRAMSACCORDC परिणामयतीत्यर्थः ॥३॥ एवं बु०' एवमुक्तप्रकारेण 'बुदि'मिति शरीरं अतिगतः-प्राप्तः सन् गर्भ-जननीकुक्षौ संवसतिसंतिष्ठते चारकगृहे चौरवत्, 'दुक्खिओ जीवोत्ति अग्निवर्णाभिः सूचीभिः भिद्यमानस्य जन्तोः यादृशं दुःखं जायते ततोऽप्यष्टगुणं यद् दुःखं भवति तेन सदृशेन दुःखेन दुःखितो भवति जीवः गर्भे, किंभूते गर्ने?-तमसा अन्धकारं यत्र तमोऽन्धकारः परमश्चासौ तमोऽन्धकारश्च परमतमोऽन्धकारः महान्धकारव्याप्त इत्यर्थः तस्मिन्, अमेध्यभृते-विष्ठापूर्णे प्रदेशे-जीववसनस्थानके ॥ ४॥ इति। 'आउसो! तओ' इत्यादि, हे आयुष्मन् !-हे इन्द्रभूते ! ततः-अष्टमासानन्तरं नवमे मासे अतीते वा-अतिक्रान्ते वा प्रत्युत्पन्ने वा-वर्तमाने वा अनागते वा-अप्राप्ते वा 'चउण्हं' चतुर्णा स्यादिरू|पाणां वक्ष्यमाणानां माता-जननी अन्यतरत्-चतुर्णा मध्ये एकतरं 'पयायइत्ति प्रसूते 'तंजह'त्ति तत् पूर्वोक्तं यथास्त्रियं वा स्त्रीरूपेण-ख्याकारेण प्रसूते १ पुरुषं वा पुरुषरूपेण-पुरुषाकारेण २ नपुंसकं वा नपुंसकरूपेण-नपुंसकाकारेण ३ बिम्बं वा विम्बरूपेण-बिम्बाकारण, बिम्बमिति गर्भप्रतिबिम्ब गर्भाकृतिरार्त्तवपरिणामो नतु गर्भ एव ४, एते कथं जायन्त ? इत्याह-'अप्पं अल्पं शुक्रं 'बहुउउय'त्ति बहुक-प्रभूतं 'उयंति ओजः-आर्तवं स्त्री तत्र गर्भाशये| जायते-उत्पद्यते १, अल्प-ओजः बहु शुक्रं पुरुषस्तत्र जायते २, द्वयोरपि रक्तशुक्रयोः-रुधिरवीर्ययोः तुल्यभावे-समत्वे सति नपुंसको जायते ३, 'इत्थी'त्ति स्त्रियाः-नार्या 'ओय'त्ति ओजसः 'समाओगे'त्ति समायोगः-वातवशेन तस्थिरीभवनलक्षणं रुयोजःसमायोगस्तस्मिन् सति बिम्बं तत्र-गर्भाशये प्रजायते ४ इति । 'अह ण' मित्यादि, अथानन्तरं 'ण' वाक्यालङ्कारे प्रसवकालसमये-जन्मकालावसरे शीर्षण वा-मस्तकेन वा पादाभ्यां वा-चरणाभ्यांवा आगच्छति 'समागच्छ NDROCALCOCCALCUCAUCRACT Jain Educati o nal For Private & Personel Use Only A w .jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy