________________
तं. वै. प्र.
॥ १४ ॥
Jain Educatio
व'त्ति पार्श्वशायी वा 'अंबखुज्जए वत्ति आम्रफलवत् कुब्ज इति 'अच्छित्ति आसीनः सामान्यतः, एतदेव विशेषतः उच्यते- 'चिट्टेज व 'त्ति ऊर्ध्वस्थानेन 'निसीजए वे 'ति निषदनस्थानेन 'तुयट्टेज व 'त्ति शयीत निद्रया इति वेति 'आसइज व'ति आश्रयति गर्भमध्यप्रदेशं 'सहज्ज व'त्ति शेते निद्रां विनेति, मात्रा मातरि वा 'सुयमाणीए'त्ति शयनं कुर्वत्या कुर्वत्यां वा 'सुयह'त्ति स्वपिति निद्रां करोतीत्यर्थः, 'जागरमाणीए' त्ति जाग्रत्या- जागरणं कुर्वत्या कुर्वत्यां वा जागर्त्ति, निद्रानाशं कुरुते इत्यर्थः, सुखितायां सुखितो भवति, दुःखितायां दुःखितो भवति, 'हन्ता गोयम ! त्ति' हन्त इति कोमलामन्त्रणार्थो दीर्घत्वं च मागधदेशीप्रभवं, उभयत्रापि 'जीत्रे णं गब्भगए समाणे' इत्यादेः प्रत्युच्चारणं तु स्वानुमतत्वप्रदर्शनार्थं, वृद्धाः पुनराहुः - 'हंता गोयमा !' इत्यत्र हन्त इति एवमेतदिति अभ्युपगमवचनं, यदनुमतं तत्प्रदर्शनार्थं 'जीवे णं गभगए' इत्यादि प्रत्युच्चारितमिति, हे गौतम! जीवो गर्भगतः सन् उत्तानको वा यावद्दुःखितो भवतीति । अथ पूर्वोक्तं पद्येन गाथाचतुष्टयेन दर्शयन्नाह - 'थिरजा० ' स्थिरजातं स्थिरीभूतं 'रक्खइ' ति रक्षति - सामान्येन पालयति ततः सा जननी तं सम्यग् यत्नादिकरणेन रक्षति 'संवाहइ' त्ति संवहति गमनाऽऽगमनादिप्रकारेण 'तुयट्टइ' त्ति त्वग्वर्त्तयति-स्वापयति रक्षति- आहारादिना पालयति आत्मानं च गर्भं चेति ॥ १ ॥ 'अणु ० ' अनुस्वपिति - अनुशेते 'सुयंतीए' त्ति स्वपत्यां सत्यां जाग्रत्यां जागर्ति गर्भः - उदरस्थजन्तुः जनन्यां सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति ॥२॥' उच्चारो०' उच्चारो - विष्ठा प्रश्रवणं-मूत्रं खेलो - निष्ठीवनं 'सिंघाणं' ति नासिकाश्लेष्मापि 'से' तस्य गर्भस्थस्य नास्तीति, जननीजठरस्थो जीव आहारत्वेन तु यद् गृह्णाति तदस्थ्यस्थिमिंजनखकेशश्मश्रु रोमेषु (मसु) पूर्वव्याख्यातेषु 'परिणामो' त्ति
Sational
For Private & Personal Use Only
गर्भावस्थादि
॥ १४ ॥
ww.jainelibrary.org