________________
तं. वै. प्र. ॥ १५ ॥
Jain Education
इ'त्ति समम् - अविषममागच्छति' सम्मं आगच्छति पाठे सम्यक् - अनुपघातहेतुना आगच्छति-मातुरुदरात् योन्यानिष्क्रामति, 'तिरियमागच्छद्द'त्ति तिरचीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते यदि तदा विनिर्घातं - मरणमापद्यते निर्गमा| भावादिति । 'कोइ पुण०' कोऽपि पुनः पापकारी - ग्रामघातरामाजठरविदारण जिनमुनिमहाशातनाविधायी वातपित्तादिदूषितो देवादिस्तम्भितो वेति शेषः, द्वादश संवत्सराणि उत्कृष्टतः 'अच्छइ'त्ति तिष्ठति, तुशब्दात् गर्भोक्तं प्रबलं दुःखं सहमानोऽवतिष्ठते गर्भवासे - गर्भगृहे, किम्भूते ? - अशुचिप्रभवे अशुचिके - अशुच्यात्मके इति ॥ १ ॥ ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याह - 'जायमा ० ' गाथा, जायमानस्य - गर्भान्निःसरतः तत्र उत्पद्यमानस्य वा यद्दुःखं भवति वा - अथवा पुनम्रियमाणस्य यद्दुःखं भवति तेन दारुणदुःखेन संमूढो - महामोहं प्राप्तः जातिं - प्राक्तनभवं आत्मीयं - स्वकीयं मूढात्मा प्राणी न स्मरति - कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानातीति ॥ २ ॥ 'वीसर' गाथा, 'वीसर'त्ति परम करुणोत्पादकं ' सरं'ति' स्वरं ध्वनिं 'रसंतो' त्ति भृशं कुर्वन् स गर्भस्थ जीवः योनिमुखात् 'निष्फिडइ' त्ति निष्क्रामति मातुः आत्मनोऽपिच वेदनामतुलां जनयन् - उत्पादयन् ॥ ३ ॥ 'गग्भत्थ' गाथा, गर्भगृहे जीवः कुंभीपाके - कोष्ठिका कृतितप्त लोह भाजनसदृशे नरकसदृशे - नारकोत्पत्तिस्थानतुल्ये 'वुच्छो' त्ति उषितः- स्थितः, अमेध्यं - गूथं मध्ये यस्य गर्भगृहस्य सः अमेध्यमध्यस्तस्मिन् अशुचिप्रभवे - जम्बालाद्युद्भवे अशुचिके - अपवित्रस्वरूपे ॥ ४ ॥ 'पित्त०' पित्तस्य 'सिंभस्य' श्लेष्मणः शुक्रस्य शोणितस्य मूत्रस्य पुरीषस्य - विष्ठायाः मध्ये - मध्यभागे जायते - उत्पद्यते, क इव ? - ' वच्चकिमिउच' त्ति वर्चस्वकृमिवत्- विष्ठानीलंगुवत्, यथा कृमि:- द्वीन्द्रियजन्तुविशेषः उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोs
For Private & Personal Use Only
गर्भाव
स्थादि.
॥ १५ ॥
jainelibrary.org