SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तं. पै. प्र. ३ Jain Education In | एककः कश्चित् उत्पद्यते अस्त्येककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते कश्चिदुत्पद्यते कश्चिन्नोत्पद्यते ?, हे गौतम! यो जीवो गर्भगतः सन् संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवत्र्त्तीत्यवधार्य मासद्वयमध्यवर्ती तु स्वर्गे न यातीति पूर्वभविकवैक्रियलब्धिकः पूर्वभविकावधिज्ञानलब्धिकः तथारूपस्य - तथाविधस्य उचितस्येत्यर्थः श्रमणस्य - साधोः वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रदर्शनार्थः 'माहणस्स'त्ति मा हन २ इत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद् यः स माहनः यद्वा ब्रह्मणो-ब्रह्मचर्यस्य देशतः सद्भावात् ब्राह्मणो- देशविरतस्तस्य वा यद्वा श्रमणः - साधुस्तस्य माहनः - परमगीतार्थस्तस्य वा 'अंतिए 'ति समीपे एकमप्यास्तामनेकं आर्य-आराद् यातं पापकर्मभ्य इत्यार्थ अत एव धार्मिकमिति सुवचनं - शोभनवाक्यं श्रुत्वा - आकर्ण्य निशम्य - मनसा अवधार्य 'त'ति तदनन्तरमेव सः - गर्भस्थजन्तुः भवति जायते 'तिघ्वसं०' तीव्रसंवेगेन- भृशं दुःखलक्षाकुलभवभयेन सञ्जाता - सम्यगुत्पन्ना श्रद्धा - श्रद्धानं धर्मादिषु यस्य स तीत्रसंवेगसञ्जातश्रद्धः 'तिवध०' तीव्रो यो धर्मानुरागः - धर्म बहुमानस्तेन रक्त इव-रङ्गित इव यः स तीव्रधर्मानुरागरक्तः स गर्भस्थः वैराग्यवान् जीवः 'णं' वाक्यालङ्कारे 'धम्मकामए 'ति धर्मे - श्रुतचारित्रलक्षणे कामो - वाञ्छामात्रं यस्य स धर्मकामकः १ पुण्ये - तत्फलभूते शुभकर्मणि कामो यस्य स पुण्यकामकः स्थानाङ्गे तु - अन्न १ पान २ वस्त्रा ३ऽऽलय ४ शयनासन ६मनो७वचन ८ काय९लक्षणं नवविधं पुण्यं प्रतिपादितं जगदीश्वरेण भगवतेति २, स्वर्गे-देवलोके कामो यस्य स स्वर्गकामकः ३ मोक्षे-शिवे अनन्तानन्तसुखमये कामो यस्य स मोक्षकामकः ४, एवमग्रेऽपि, नवरं काङ्क्षा-गृद्धिरासक्तिरित्यर्थः, For Private & Personal Use Only w.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy