________________
NARAYA5ग
लाकथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः पुत्रजीवं 'फुडा' इति पुत्रजीवं स्पृष्टवती, इह प्रतिबद्धता-गाढस
म्बन्धस्तदंशत्वात् स्पृष्टता च-सम्बन्धमात्रं अतदंशत्वात् , अथवा मातृजीवरसहरणी १ पुत्रजीवरसहरणी २ चेति द्वे नाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवं स्पृष्टेति, 'तम्हा' इति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनात् आहारयति तस्मात् परिणमयति, 'अवरावि य' त्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, यस्मादेवं तस्माच्चिनोति शरीरं, उक्तञ्च तन्त्रान्तरे-"पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । | ययाऽसौ पुष्टिमामोति, केदार इव कुल्यया ॥१॥” इति, 'से' अथ अनेनार्थेन हे गौतम ! एवं प्रोच्यते-जीवो गर्भगतः सन् न प्रभुः-न समर्थः मुखेन कावलिकं आहारमाहर्तुमिति ॥ पुनः गौतमो वीरं प्रश्नयति
जीवे णं गब्भगए समाणे किमाहारं आहारेइ ?, गोयमा जं से माया नाणाविहाओ नव रसविगइओ ४ातित्तकडुयकसायंबिलमहराई दवाई आहारेइ तओ एगदेसेणं ओयमाहारेइ, तस्स फलबिंटसरिसा उप्पल-18
नालोवमा भवइ नाभिरसहरणी जणणीए सया इं नाभीए पडिबद्धा नाभीए तीए गम्भो ओयं आइयइ का अण्हयंतीए ओयाए तीए गम्भो विवडूइ जाव जाउत्ति (सू०५) . __ जीवो गर्भगतः सन् किमाहारमाहारयति ?, गौतम! 'जं से'त्ति या से-तस्य गर्भसत्त्वस्य माता गर्भधारिणी 'नाणा नानाविधाः-विविधप्रकाराः रसरूपा रसप्रधाना वा विकृतयो-दुग्धाद्या रसविकारास्ताः आहारयति, तथा यानि तिक्तकटुककषायाम्लमधुराणि द्रव्याणि चाहारयति, तत्र तिक्तानि-निम्बचिर्भटादीनि कटुकानि-आर्द्रकतीमनादीनि |
Jain Educator
For Private & Personal Use Only
W
w .jainelibrary.org