________________
तं. वै. प्र.
॥९॥
Jain Education
आहच आहारेह आहच परिणामेह आहच ऊससेइ आ० नीससह, माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ अवरावि णं पुत्तजीवपडिबद्धा माउ - जीवफुडा तम्हा चिणाइ, से एएणं अद्वेणं गोयमा ! एवं बुच्चइ-जीवे णं गन्भगए समाणे नो पहू मुहणं कावलियं आहारं आहरित्तए । (सूत्रं ४ )
'जीवे ०' हे भदन्त ! हे भवान्त ! हे दयैकरसकृतवाग्वृष्ट्याद्रींकृतभव्यहृदयवसुंधर ! जीवो गर्भगतः सन् प्रभुः समर्थः मुखेन वक्त्रेण कवलैर्भवं कावलिकं आहारं - अशनादिकं 'आहारितए'त्ति आहर्त्तु अदनं कर्तुमिति ?, आह जगदीश्वरःहे गौतम! नायमर्थः समर्थः, श्रीगौतमः प्राह - 'से' अथ केनार्थेन एवं प्रोच्यते ?, विश्वैकवत्सलो वीरः प्राह - हे गौतम! जीवो गर्भगतः सन् 'सङ्घउ 'त्ति सर्वात्मना - सर्वप्रकारेण आहारयति, आहारतया गृह्णातीत्यर्थः, सर्वात्मना परिणामयति, | शरीरादितया गृह्णातीत्यर्थः, सर्वतः - सर्वात्मना 'उच्छ्रसिति' सर्वप्रकारेण ऊर्ध्वश्वासं गृह्णातीत्यर्थः, सर्वतः - सर्वात्मना निःश्वसिति - श्वासमोक्षणं करोतीत्यर्थः, अभीक्ष्णं - पुनः पुनः आहारयति अभीक्ष्णं परिणामयति अभीक्ष्णमुच्छ्रसिति अभीक्ष्णं निःश्वसिति, 'आहच'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् कदाचित् परि| णामयति कदाचिन परिणामयति कदाचिदुच्छसिति कदाचिन्नोच्छ्रसिति कदाचिन्निःश्वसिति कदाचिन्न निःश्वसिति अपर्याप्तावस्थायां । अथ कथं सर्वतः आहारयतीत्याह- 'माउजीवर'० रसः हियते - आदीयते यया सा रसहरणी नाभिनालमित्यर्थः मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह - पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात्,
For Private & Personal Use Only
गर्भे आ हारपरि
णामादि
सू. ४
॥ ९ ॥
w.jainelibrary.org