________________
शेषः, तथा विरचितं-कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्मप्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापं गर्हामि-निन्दामि गुरुसमक्षमालोचयामीत्यर्थः ॥५१॥ श्रुतं च धर्मश्च संघश्च साधवश्च श्रुतधर्मसंघसाधवः तेषु पापं-आशातनारूपं प्रत्यनीकतया-विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य-द्वादशांगरूपस्य तदध्येत्रध्यापकानामुपरि यदरुच्यबहुमानादि चिन्तनं 'अज्ञानमेव शोभन मिति भणता पूर्वभवे माषतुषस्येव धर्मप्रत्यनीकता 'कविला इत्थंपि इहयंपी'ति भणतो मरीचेरिव संघप्रत्यनीकतां संमेतशैलयात्रागच्छत्श्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिलद्विजस्येव, तथा सर्वेषांश्रुतधर्मादाचार्योपाध्यायसाधूनामुपरि प्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषुअष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना गहर्हामीत्यर्थः ॥ ५२ ॥ यच्चोक्तं'अन्नेसु अ पावेसु'त्ति तदेव व्यक्तीकर्तुमाह-अन्येष्वपि जीवेषु-तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभिन्नेषु मैत्रीकारुण्यमाध्यस्थ्यानि विधेयतया गोचरो-विषयो येषां ते तथा तेषु कृत-निष्पादितं 'परिआवणाइ'त्ति परि-| तापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःख-कष्टं कृतमिदानीं| तदपि पापं गर्हामि-जुगुप्साम्यालोचयामीतियावत् ॥५३॥ अथोपसंहारमाह-यत्किञ्चित् पापं कृत्यं मनोवाकायै राग-1 द्वेषमोहाज्ञानवशात् कृतकारितानुमतिभिराचरितं-विहितं धर्मस्य-जिनधर्मस्य विरुद्धं-प्रतिकूलं अतएवाशुद्धं-सदोषं सर्व
Jain Education
p na
For Private & Personel Use Only
jainelibrary.org