SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ वश्यककरणप्रयत्नेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जराहेतुत्वात् ॥७॥ उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिनगुणोकीर्तनगर्भ मङ्गलभूतं गजादिस्वप्नसंदर्भमाह गय १ वसह २ सीह ३ अभिसेय ४ दाम ५ ससि ६दिणयरं ७ झयं ८ कुम्भं । पउमसर १० सागर ११ विमाण-भवण १२ रयणुच्चय १३ सिहिं १४ च ॥८॥ गाथा सुगमा, नवरं 'अभिसेत्ति चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डादण्डविधृतकलशयुगलाभिषिच्यमानां लक्ष्मी जिनमाता पश्यति, 'विमाणभवण'त्ति द्वादशस्वप्ने देवलोकागततीर्थकृज्जननी विमानं पश्यति नरकागतजिन-1 जननी तु भवनं, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुलपराक्रमनिधिर्भावी, वृषभद-1 सार्शनात् महामोहपङ्कमनधर्मरथधुरोद्धरणक्षमो भरते धर्मबीजवापनिमित्तं च भावीति स्वनैरपि जिनगुणाः सूच्यन्ते, चतु-12 देशस्वप्नसंख्यया तु चतुर्दशरज्ज्वात्मकस्यापि लोकस्योपरिवर्ती पुत्रो भविष्यतीति निवेद्यते इति सर्वतीर्थकृद्गुणवर्णनरूपं स्वप्नमङ्गलमुक्तम् । अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाह अमरिंदनरिंदमुणिंदवंदिअं वंदिउ महावीरं । _कुसलाणुबंधिवन्धुरमज्झयणं कित्तइस्सामि ॥९॥ 'अमरिंदनरिंद'त्ति उपक्रमकृतेनापमृत्युना न नियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीनामिन्द्रा मुनीन्द्राः द्वन्द्वः तैर्वन्दितं 'वन्दि'ति वन्दित्वा, के ?-'महावीरं' महद्वीर्य यस्यानन्तबलत्वाद्देवकृतपरीक्षा Jain Education I mational For Private & Personel Use Only Iwww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy