________________
CAREOCOCCRORESCRECRECRUCAROL
विधाय नमन्ति नराणां हास्याधुत्पादनार्थ, 'काई'इति पदमग्रेऽपि योज्यम् 'सुकडनिरिक्खिएहिं ति काश्चित् सुकटाक्षनिरीक्षितैः-सुष्ठुनेत्रविकारनिरीक्षणैः बालान् पातयन्तीति शेषः, 'सविलासमहुरेहिति सविलासानि च-विलाससहितानि मधुराणि च सविलासमधुराणि एवंविधानि गीतानि वचनानि चेति शेषस्तैः काश्चित् पुरुषान् मोहयन्तीति, |'उपहसिएहि'न्ति उपहसितैः काश्चित हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति, "उवग्गहिए हिंति उपगृहितानिपुरुषस्यालिङ्गनलिङ्गग्रहणकरग्रहणादीनि तैः काश्चित् नराणां स्वप्रेमभावं दर्शयन्तीति, 'उवसद्देहिंति उपशब्दानि-सुरतावस्थायां वलवलायमानादीनि प्रच्छन्नसमीपशब्दकरणानि वा तैः काश्चित् कामिनां कामरागं प्रकटयन्तीति, 'गुरुगदरिसणेहिं'त्ति गुरुकाणि च प्रौढानि-पयोधरनितम्बादीनि स्थूलोच्चत्वात् सुन्दराणि वा यानि दर्शनानि च-आकृत| यस्तानि गुरुकदर्शनानि तैर्दूरस्था एव काश्चित् कामिनः स्ववशे कुर्वन्तीति १ यद्वा 'गु'इति गुह्यप्रकाशनेन पुरुषं पातयन्ति, यद्वा गु-इति गुरुं स्वजनकभादिकमपि विप्रतार्याकार्ये प्रवर्त्तयन्ति, 'रु'इति रुदनकरणेन पुरुषं सस्नेहं कुर्वन्ति २ 'ग'इति स्वपितुर्ग्रहगमनादिप्रस्तावे पुरुषमत्यन्तं रागवन्तं कुर्वन्तीति ३ 'द'इति दर्शनेन रक्तकृष्णादिदन्तदर्शनेन कामिनो मोहयन्तीति ४ 'रि'इति सम्भाषणे रे मां मुञ्च रे ! मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं सकामं कुर्वन्तीति आर्षत्वात् 'रि'इति यद्वा अरि इति रतिकलहे-अरे मया सह मा कुरूपहासमित्यादिरतिकलहकरणेन पुरुषं ४ क्रीडयन्तीति आर्षत्वात् अरि इति ५ 'स'इति अन्योक्तशृङ्गारगीतादिशब्दकरणेन साधूनपि सकामान् कुर्वन्तीति ६| 'ण'इति सकज्जलसविकारसजलाभ्यां नेत्राभ्यां पुरुष सकामं स्ववशं सगद्गदं स्वकार्यकर्त्तारमपराधमोक्तारं कुर्वन्तीति |
ARRRRRRRRIER
Jain Education
For Private & Personel Use Only
dr.jainelibrary.org