________________
तं. वै. प्र.
॥ ५२ ॥
Jain Education
गुरुगदरिसणेहिं । 'भूमिलिहणविलिहणेहिं चेति भूमिलिखनानि-भूमौ पादादिनाऽक्षरलेखनानि विलिखनानि-विशेषतो | रेखा स्वस्तिकादिकरणानि तैः स्वगुह्यं पुरुषाणां ज्ञापयन्ति इति भूमि (लेखन वि) लेखनैरिति चकारौ अत्र समुच्चयार्थी 'आरुहण| नट्टणेहिं च'त्ति आरुहणानि - वंशाग्रादिचटनानि नर्तनानि भूमौ नृत्यकरणानि तैः आरुहणनर्त्तनैः पुरुषादिकमाश्चर्यवन्तं कुर्वन्तीति, 'वालयज्वगृहणेहिंचे 'ति बालकाः - मूर्खाः कामिन इत्यर्थः तेषामुपगूहनानि - प्रच्छन्नरक्षणादीनि तैर्बालकोपगूहनैः कुरण्डाः स्वकामेच्छां पूरयन्तीति, यद्वा वालकाः - केशकलापास्तेषामुपगूहनानि - रचना स्वच्छ वस्त्राच्छादितादीनि तैर्म|न्मथग्रस्तानधमाधमान् स्ववशे कृत्वा बलिवद्दवत् वाहयन्तीति चशब्दात् कपिवत् भ्रामयन्ति, अश्ववारयन्तिश्रेणिक भार्याघनश्रीराज्ञीवत्, स्वार्थाप्राप्तौ प्राणत्यागमपि कुर्वन्तीति, 'अंगुलि०' अङ्गुलिस्फोटनानि - कडिक्काकरणानि यद्वा अङ्गुलीनां परस्परं 'ताडनानि' स्तनपीडनानि - कराभ्यां पयोधर चम्पनानि हस्ताभ्यां कुचमर्दनानि वा कटितटयातनानि श्रोणिभागपीडनानि कराभ्यां वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीति, 'तज्जणाहिं चे 'ति तर्जनानि - अङ्गुलिमस्त कतृणादिचालनानि तैर्मन्मथपीडामुत्पादयन्ति कामिनां चशब्दादुद्भटनेपथ्यकरणैराभरणशब्दोत्पादनैः सविलासगत्या चतुष्पथादौ प्रवर्त्तनैरित्याद्यनेकप्रकारैर्नरान् बइलतुल्यान् कुर्वन्त्यतः संयमार्थिभिः साधुभि | रासां सङ्गस्त्याज्यः सर्वथा सर्वदैव इति । तथा 'अवि याई'ति पूर्ववत् 'ताओ पासो व ववसिडं जे' इति 'जे' इति प्राकृतत्वात् लिङ्गव्यत्ययः याः कुरण्डादयः स्त्रियः सन्ति जगति 'ताउ'त्ति ताः पुरुषान् पाशवत् - नागपाशवागुरादिबन्धनवत् 'ववसितुं०' धातूनामनेकार्थत्वात् बन्धितुं वर्त्तन्ते, इह परभवे नराणां बन्धनकारणत्वात्, 'पंकुध खुप्पि -
For Private & Personal Use Only
विशेषतौ नारीरू
रूपं
सू. १९
।। ५२ ।।
w.jainelibrary.org