________________
Jain Education
सोऽप्येवं वक्तव्यः यथा-भवतः कथं वाह्यार्थसंसिद्धिः १, न हि कदाचिदसौ प्रत्यक्षगोचरः, साकारज्ञानवादिनः सदा तदाकारस्यैव संवेदनात्, तथा च तस्याप्यनुपलभ्यमानत्वादभाव एव, अथाकारसंवेदनेऽपि तत्कारणमर्थः परिकल्प्यते, धूमज्ञान इवाग्निः, एवं सति स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः ?, अथायमप्यभि| दधीत न कदाचिदसौ तत्कारणत्वेनेक्षित इति, ननु वाह्यार्थेऽपि तुल्यमेतत्, न हि सोऽपि तदाकारकारितया कदाचिदवलोकितः, अथ मनस्कारस्य चिद्रूपतायामेव व्यापारो न तु नियता (त) कारणत्वे, अतस्तत्रार्थः कारणं कल्प्यते, | एवं तर्हि जीवपुलौ परिणाममात्र एव कोरणं, स्थितिपरिणतौ पुनरधर्मास्तिकायोऽपेक्षाकारणत्वेन व्याप्रियत इति किं न कल्प्यते ?, अथासौ सर्वदा सर्वस्य सन्निहित इत्यनियमेन स्थितिकारणं भवेत्, नन्वेवमर्थोऽपि किं सन्निहित इत्येव खाकारमर्पयति ?, अथ चक्षुरादिव्यापारमयमपेक्षते, अधर्मास्तिकायोऽपि तर्हि स्वपरगतौ विश्रसाप्रयोगाव|पेक्षत इति नानयोर्विशेषमुत्पश्यामः, तथा 'भाजनम्' आधारः 'सर्वद्रव्याणां' जीवादीनां 'नमः' आकाशम्, अव| गाहः - अवकाशस्तल्लक्षणमस्येत्यवगाहलक्षणं तद्ध्यवगाढुं प्रवृत्तानामालम्वनीभवति, अनेनावगाहकारणत्वमाकाशस्योक्तं, न चास्य तत्कारणत्वमसिद्धं यतो यद्यदन्वयव्यतिरेकानुविधायि तत्तत्कार्य, यथा चक्षुराद्यन्वयव्यतिरेकानु| विधायि रूपादिविज्ञानम्, आकाशान्वयव्यतिरेकानुविधायी चावगाहः, तथाहि - शुषिररूपमाकाशं, तत्रैव चावगाहो, न तु तद्विपरीते पुद्गलादौ, अथैवमलोकाकाशेऽपि कथं नावगाहः १, उच्यते, स्यादेवं यदि कश्चिदवगाहिता भवेत्,
For Private & Personal Use Only
jainelibrary.org