________________
उत्तराध्य.
बृहद्वृत्तिः
॥५५९॥
Jain Education In
&&
तत्वेन च सिद्धत्वात् न च खपुष्पादिषु सङ्केतितैर्दुःखादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसङ्केतविषयाणामेव | शुद्धपदाना वाच्यत्वंस्येह हेतुत्वेनेष्टत्वात्, निपुणेन प्रतिपत्रा भाव्यम्, अन्यथा धूमादेरपि गोपालघटादिष्वन्यथा| भावदर्शनादेप प्रसङ्गो दुर्निवारः स्यात् उक्तं च – “अत्थिति निवियप्पो जीवो नियमा उ सहतो सिद्धी । कम्हा ? सुद्धपयत्ता घडखरसिंगाणुमाणाओ || १ ||" इत्याद्यलं प्रसङ्गेन, तथा 'अधर्मः' अधर्मास्तिकायः स्थितिः स्थानं गति| निवृत्तिरित्यर्थः, तलक्षणमस्येति स्थानलक्षणः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्य प्रत्यपेक्षाका - रणत्वेन व्याप्रियत इति तेनैव लक्ष्यत इत्युच्यते, अनेनाप्यनुमानमेव सूचितं तचेदम् - यद्यत्कार्य तत्तदपेक्षाकारणवद, यथा घटादि, कार्य चासौ स्थितिः, यच्च तदपेक्षाकारणं तदधर्मास्तिकाय इति, अत्र च नैयायिकादिः सौगतो वा वदेत्-नास्ति अधर्मास्तिकायः, अनुपलभ्यमानत्वात्, शशविषाणवत्, तत्र यदि नैयायिकादिस्तदाऽसौ वाच्यः - कथं | भवतोऽपि दिगादयः सन्ति ?, अथ दिगादिप्रत्ययलक्षण कार्यदर्शनाद, भवति हि कार्यात्कारणानुमानम्, एवं सति | स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किं न गम्यते ?, अथ तत्र दिगादिप्रत्यय कार्यस्यान्यतोऽसम्भवात्कारणभूतान् | दिगादीननुमिमीमह इति मतिः, इहाप्याकाशादीनामवगाहदानादिखख कार्यव्यापृतत्वेन ततोऽसम्भवादधर्मास्तिकाय| स्यैव स्थितिलक्षणं कार्यमिति किं नानुमीयते ?, अथासौ न कदाचिद दृष्टः ?, एतद्दिगादिष्वपि समानम् । अथ सौगतः १ अस्तीति निर्विकल्पो जीवो नियमात् शब्दत एव सिद्धिः । कस्मात् ? शुद्धपदत्वात् घट खरशृङ्गानुमानात् ॥ १ ॥
For Private & Personal Use Only
मोक्षमार्ग
गत्य० २८
॥५५९॥
w.jainelibrary.org