SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ धम्मो अधम्मो आगासं, दव्वं इकिकमाहियं । अणंताणि य व्वाणि, कालो पुग्गलजंतवो ॥८॥ . धर्मोऽधर्म आकाशं द्रव्यमिति धर्मादिभिः प्रत्येक योज्यते 'एकैक' एकसङ्ख्याया एवैतेषु भावाद् आख्यातं तीर्थकृद्भिरिति गम्यते, तत्किं कालादिद्रव्याण्यप्येवमेवेत्याह-'अनन्तानि' अनन्तसङ्खयानि खगतभेदानन्त्यात् , 'चः' पुनरर्थे उत्तरत्र योक्ष्यते, कानि?, द्रव्याणि, कतमानि ?-कालः पुद्गलजन्तवश्चोक्तरूपाः, कालस्य चानन्त्यमतीतानागतापेक्षयेति सूत्रार्थः ॥ एषां परस्परभेदनिबन्धनं लक्षणभेदमाह गइलक्षणो उ धम्मो, अहम्मो ठाणलक्खणो। भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं ॥९॥ वत्तशाणालक्खणो कालो, जीवो उवओगलक्षणो। नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥१०॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरियं उवओगे य, एयं जीवस्स लक्खणं ॥११॥ सबंधयारउजोओ, पभा छाया तवृत्ति वा । वण्णरसगंधफासा, पुग्गलाणं तु लक्खणं ॥१२॥ गमनं गतिः-देशान्तरप्राप्तिः लक्ष्यतेऽनेनेति लक्षणं, गतिर्लक्षणमस्येति गतिलक्षणः, 'तुः' पूरणे, कोऽसौ ?धर्मास्तिकायः, आह-सिद्धे सति वस्तुनोऽस्तित्वे इदमनेन लक्ष्यत इति वक्तुं युक्तम् , अस्य तु सत्त्वमेवासिद्धम् , अत्रोच्यते, यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, शुद्धपदवाच्यश्च धर्मनामास्तिकायो, न चायमसिद्धो हेतुः, धर्म इत्यस्यैतद्वाचकस्यासमस्तपदत्वेन तथाऽभिधेयार्थवाधकप्रमाणाभावात् प्रमाणान्तरवाधितविषयत्वाख्यदोषरहि an Education in For Private Personal use only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy