________________
42540
मोक्षमार्ग
बृहद्वृत्तिः
गत्य०२८
उत्तराध्य.
तत्र तु धर्मास्तिकायस्य जीवादीनां चासत्त्वेन तस्यैवाभाव इति कस्यासी समस्तु ?, नन्वेवमपि न तसिद्धिः, हेतोरसिद्धत्वात. तदसिद्धिश्चान्वयाभावात् , सति हि तस्मिन् भवनमन्वयो, न च तत्सत्त्वसिद्धिरस्ति, अन्वयाभावे
च व्यतिरेकस्याप्यसिद्धिरिति, ननु कथं न तत्सत्त्वसिद्धिः ?, अथ भित्त्याद्यभाव एवाकाशमिति, एवं सत्याकाशा॥५६॥ भाव एव भित्त्यादय इत्यपि किं न भवति ?, अथ तेषां प्रमाणप्रतीतत्वाद्, इहापि किं न प्रमाणप्रतीतिः ?, तथा
हिवियति विहग इत्यादि प्रतीत्यन्यथानुपपत्त्याऽनुमानतस्तत्सिद्धिः, न चेयं प्रतीतिरन्यथाऽपि संभवतीति न ततस्तत्सिद्धिरिति ( वक्तुं ) युक्तम् , एवं हि भित्त्यादिप्रतीतेरपि भिच्याद्यभावेऽपि भावकल्पनया तेषामप्यभा
वप्रसक्तिः, अथ तत्प्रतीतेः प्रामाण्यनिश्चय इति नान्यथात्वकल्पना, एवं तर्हि वक्तव्यं-कुतोऽस्याः प्रमाणनिदश्चयः ?, किं प्रमाणान्तरानुग्रहाद्वाधकाभावाद्वा ?, यदि प्रमाणान्तरानुग्रहात् किं तत्प्रमाणान्तरं ?, य इहाबाधि
तप्रत्ययः स सर्वः प्रमाणं, यथा सुखादिप्रत्ययः, बाधितप्रत्ययाश्चामी भित्यादिप्रत्यया इत्यनुमानमिति चेद्यद्येवमिहापि यो य इहप्रत्ययः स सर्वः सालम्बनो यथेह कुण्डे दधीति प्रत्ययः, इहप्रत्ययश्चायम् इह विहग इति प्रत्ययः इत्यनुमानमस्त्येव, अथैवमाधारमात्रस्यैव सिद्धिर्नत्वाकाशस्य, कथं न तत्सिद्धिः?, यदेव ह्याधारमात्रं तदेवाकाश|मिति वयं ब्रूमः, अथ बाधकाभावात् , ननु बाधकमपि विपरीतप्रत्ययोत्पत्तिरूपं, तदभावश्चोभयत्र समान इति न भित्त्याद्यभाव एवाकाशं किन्तु शुषिररूपमन्यदेव,ततस्तद्भावभावित्वादवगाहस्य कथं न तत्कारणत्वसिद्धिराकाशस्य ?,
R
॥५६॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org