SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ है एवं च स्थितमेतद्-अवगाहेन कार्यरूपेण लक्ष्यमाणत्वादवगाहलक्षणं नमः, तथा वर्तन्ते-भवन्ति भावास्तेन तेन । रूपेण तान् प्रति प्रयोजकत्वं वर्त्तना सा लक्षणं-लिङ्गमस्येति वर्त्तनालक्षणः, कोऽसौ ?-कालः,इदमुक्तं भवति-यदमी शीतवातातपादयः ऋतुविभागेन भवन्ति यच केचिच्छशधरकरनिकरानुकारिपारतीप्रसवाः अन्ये तु तुहिनशिलाशकलविशदकुन्दमालतीकुसुमवासवाहिनः अपरे च केशरतिलकुरुबकशिरीषाङ्कोलप्रसूनजृम्भमाणपरागभाजः तदितरे च करिदशनसकलधवलमल्लिकाबहलपरिमलहारिणः परे च कदम्बकेतकरजःपूरपूरिताम्बराः अपरे तु सप्तच्छदकुसुमरजोधूलिधूसरितविश्वविश्वम्भराः अविशिष्टविशिष्टवस्तवः प्रकाशन्ते क्रमेणैव भुवनभागांस्तदवश्यममीषां नैयत्यहेतुना केनापि भवितव्यं , स च काल इत्यलं प्रसङ्गेन, सर्वथा वर्तनया लक्ष्यमाणत्वादस्ति काल इति स्थितं, तथा जीवः' जन्तुरुपयोगो-मतिज्ञानादि लक्षणं-रूपं यस्यासौ उपयोगलक्षणो, मतिज्ञानादिको धुपयोगस्तद्धर्मः, स च । खसंविदित एवेति, तदनुभवतो रूपाद्यनुभवादिव घटादिर्जीवो लक्ष्यत इति तल्लक्षणमुच्यते, अपश्चितं चैतदिहैव प्रागन्यत्र चेति न पुनः प्रतन्यते, अत एव 'ज्ञानेन' विशेषग्राहिणा 'दर्शनेन च' सामान्यविषयेण 'सुखेन च' आह्वादरूपेण दुःखेन च-तद्विपरीतेन प्रक्रमालक्ष्यत इति गम्यते, न हि ज्ञानादीन्यजीवेषु कदाचिदुपलभ्यन्त इतिकृत्वा । सम्प्रति विनेयानां दृढतरसंस्काराधानाय उक्तलक्षणमनूद्य लक्षणान्तरमाह-'ज्ञानं च' उक्तरूपमेवं दर्शनं चैव चरित्रं च तपस्तथा 'वीर्य' वीर्यान्तरायक्षयोपशमसमुत्थं सामर्थ्यलक्षणम् 'उपयोगश्च' अवहितत्वं, किमित्याह-'एतत्' ज्ञानादि उत्तराभ्य. ९४ For Private Personel Use Only a w .jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy