________________
उत्तराध्य. बृहद्वृत्तिः
॥५६१
EXACILISAR
जीवस्य लक्षणम्, एतेन हि जीवोऽनन्यसाधारणतया लक्ष्यत इति । इत्थं जीवलक्षणमभिधाय पुद्गलानां लक्षण- मोक्षमार्गमाह-शब्दः' ध्वनिः 'अन्धकारः' तिमिरम् , उभयत्र सूत्रत्वात्सुपो लुक्, 'उद्योतः' रत्नादिप्रकाशः 'प्रभा' चन्द्रा-14 दिदीधितिः 'छाया' शैत्यगुणाः 'आतपः' रविबिम्बजनित उष्णप्रकाशः, इतिशब्द आद्यर्थः, ततश्च सम्बन्धभेदा
गत्य०२८ दीनां परिग्रहः,वा समुच्चये,वर्णश्च-नीलादिः रसश्च-तिक्तादिः गन्धश्च-सुरभ्यादिः स्पर्शश्च-शीतादिरेषां द्वन्द्वः, इतिशब्देन चाद्यार्थेनैषां ग्रहणेऽपि पुनरुपादानं सर्वत्रानुयायिताख्यापनार्थ, 'पुद्गलानां' स्कन्धादीनां 'तुः' पुनरर्थः लक्षणम् ,एतैरेव तेषां लक्ष्यत्वात् ,आह-पौगलिकत्वे शब्दादीनां पुद्गललक्षणत्वं युक्तं तच्च कथम् ?, उच्यते,शब्दस्तावन्मूर्त्तत्वात्पौद्गलिको, मूर्तिभावोऽस्य प्रतिघातविधायित्वादिभ्यः,उक्तं हि-"प्रतिघातविधायित्वाल्लोष्टवन्मूर्तता ध्वनेः। द्वारवातानुपाताच, धूमवच्च परिस्फुटम् ॥१॥" अन्धकारोद्योतप्रभाणां तु पौद्गलिकत्वं चक्षुर्विज्ञानविषयत्वात् , प्रयोगश्चात्र-यत्पौगलिकं न भवति तचक्षुर्विज्ञानविषयमपि न भवति, यथाऽऽत्मादयः, चक्षुर्विज्ञानविषयाश्चान्धकारादयः, अथालोकाभावोऽन्धकार, तथा च निरुपाख्यत्वेन तस्यासत्त्वमुच्यते, न, सतः सर्वथा निरन्वयाभावस्थाभावेनाभावरूपत्वेऽपि निरूपाख्यत्वासिद्धेः, तथाहि-घटस्य कपालाख्यपर्यायान्तरोत्पत्तिरेवाभावो न पुनरु
॥५६॥ च्छेदमात्रम्, एवमलोकस्याप्यन्धकाराख्यपर्यायान्तरोत्पत्तिरेवाभावो न तु तथाविधपरमाणुरूपतयाऽप्यभाव एव, इत्थं चैतत्, परिणामित्वाद्वस्तुनः, परिणामस्य च सत एव वस्तुनः पूर्वरूपपरित्यागेन रूपान्तरोत्पत्तिरूपत्वात् ,
भवति, यथाऽऽत्माल
तथा च निरुपा
विनाभावरूपत्वेऽपि
For Private
Personal Use Only