SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Jain Education Int उक्तं हि - " परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ १ ॥ " एवं छायाऽऽतपयोरपि पौद्गलिकत्वं वस्तुत्वं च भावनीयं, तथा स्पर्शन ग्राह्यत्वाच्चानयोः पौद्गलिकत्वं, तथाहिछायायाः शैत्यमातपस्य चोष्णत्वं प्रतिप्राणि प्रतीतमेवेति, अतश्च यत्कैश्चिदुच्यते - शब्दोऽम्बरगुण इत्यादि, तदपास्तं भवति, उक्तञ्च - " अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः । छायाऽऽतपस्तमः शब्दभावेन परिणामिनः ॥ १॥" इत्यादि, वर्णादीनां च पौगलिकत्वं सुप्रसिद्धमेवेति सूत्रचतुष्टयार्थः ॥ अनेन द्रव्यलक्षणमुक्तं, पर्यायलक्षणमाह एगत्तं च पुहुत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ॥ १३ ॥ एकस्य भावः एकत्वं – भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः सामान्यपरिणतिरूपं, चशब्द उत्तरापेक्षया समुच्चये, पृथग्भावः पृथक्त्वम् - अयमस्मात्पृथगिति प्रत्ययोपनिबन्धनं, 'चः' सर्वत्र प्राग्वत्, संख्यानं सङ्ख्या - यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, संतिष्ठतेऽनेनाकारविशेषेण वस्त्विति संस्थानं - परिमण्ड - लोऽयमित्यादिबुद्धिनिबन्धनम्, एवेति पूरणे, 'संयोगाः' अयमङ्गुल्योः संयोग इत्यादिव्यपदेशहेतवः, 'विभागाश्च' अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र सम्बन्धिभेदेन भेदमाश्रित्य बहुवचननिर्देशः, चशब्दोऽनुक्तनवपुराणत्वादिपर्यायोपलक्षकः, 'पर्यवाणाम्' उक्तनिरुक्तानां, 'तुः' पूरणे 'लक्षणम्' असाधारणरूपम्, अयमभिप्रायः यः कश्चिदस्खलितप्रत्ययः स सर्वः सनिबन्धनो, यथा घटादिप्रत्ययः, अस्खलितप्रत्ययाश्चामी एकोऽयमित्यादिप्रत्ययाः, For Private & Personal Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy