SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५६२॥ Jain Education Int ततोऽवश्यममीषां निबन्धनेन भवितव्यं तच्च न द्रव्यमेव तस्य सदाऽवस्थितत्वेन प्रतिनियतकालैकत्वादिप्रत्ययानुत्पत्तिप्रसङ्गात्, ततश्च यदमीषां कालनियमेनोत्पत्तिनिबन्धनं न तत्पर्यवेभ्यस्तत्तत्परिणतिविशेषरूपेभ्योऽन्यत्, गुणानां तु लक्षणानभिधानं रूपादिरूपाणां तेषामतिप्रतीतत्वात् प्रायो विप्रतिपत्त्यविषयत्वाच्चेति सूत्रार्थः ॥ इत्थं स्वरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमुपदर्शयितुमाह जीवा जीवा य बंधो य, पुण्णं पावाssसवो तहा। संवरो निज्जरा मुक्खो, संतेए तहिया नव ||१४|| तहियाणं तु भावाणं, सम्भावे उवएसणं । भावेण सद्दहंतस्स, सम्मत्तं ति विग्राहियं ॥ १५ ॥ 'जीवाः ' उक्तलक्षणाः 'अजीवाश्च' धर्मास्तिकायादय उक्तरूपा एव 'बन्धश्व' जीवकर्मणोरत्यन्तसंश्लेषः पुण्यं - शुभप्रकृतिरूपं पापम्-अशुभं मिथ्यात्वादि आश्रवति - आगच्छत्यनेन कर्मेत्याश्रयः - कर्मोपादान हेतुर्हिसादिः, पुण्यादीनां च कृतद्वन्द्वानामिह निर्देशः, 'तथे 'ति समुच्चये, संवरणं संवरः - गुप्यादिभिराश्रवनिरोधः (निर्जरणं निर्जरा - विपाकात्तपसो वा कर्मपरिसाट:, 'मोक्षः' कृत्स्त्रकर्मक्षयात्स्वात्मन्यवस्थानं, 'सन्ति' विद्यन्ते 'एते' | अनन्तरोक्ताः 'तथ्याः' अवितथा निरुपचरितवृत्तयो, न तु सुगतसाङ्ख्योलूकादिकल्पितपदार्थवद्विचाराक्षमाः, यथा चैतदेवं तथा सूत्रकृन्नानि द्वितीया प्रपञ्चितमिति तत एवावधार्यम्, इह तु ग्रन्थगौरवभयान्नोच्यते, 'नवे' ति नवसङ्ख्याः, मध्यमप्रस्थानापेक्षया चैतद्, अन्यथा सङ्क्षेपापेक्षया जीवाजीवयोरेव बन्धादीनामन्तर्भावसम्भवात् द्वित्व For Private & Personal Use Only मोक्षमार्ग गत्य० २८ ॥५६२|| w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy