SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ DOORXXXSEX अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदिति तथागतमतमपास्तं, तथाहि-यदुत्पादविनाशयोन यस्योत्पादविनाशी न तत्ततोऽभिन्नं, यथा घटात्पटो, न भवतश्च पर्यायोत्पादविनाशयोव्यस्योत्पादविनाशी, न चायमसिद्धो हेतुः, ६ स्थासकोशकुशूलाद्यवस्थासु मृदादिद्रव्यस्यानुगामित्वेन दर्शनात् , न चास्य मिथ्यात्वं, कदाचिदन्यथादर्शनासिद्धेः, उक्तं हि-“यो ह्यन्यरूपसंवेद्यः, संवेद्येतान्यथा पुनः । स मिथ्या न तु तेनैव, यो नित्यमवगम्यते ॥१॥" तथैकस्मिन् | द्रव्ये स्वाधारभूते आश्रिताः-स्थिता एकद्रव्याश्रिताः, के ते ?-'गुणाः' रूपादयः, एतेन च ये द्रव्यमेवेच्छन्ति तद्यतिरिक्तांश्च रूपादीनविद्योपदर्शितानाहुस्तन्मतनिषेधः कृतः, संविनिष्ठा हि विषयव्यवस्थितयो, न च रूपाधुत्कलिहै तरूपं कदाचित्केनचिद् द्रव्यमवगतमवगम्यते वा, अथ तद्विवर्त एव रूपादयो न तु तात्त्विकाः केचन तद्भेदेन सन्ति, नन्वेवं रूपादिविवों द्रव्यमित्यपि किं न कल्प्यते ?, अथ तथैव प्रतीतेः, एवं सति प्रतीतिरुभयत्र साधारणेत्युभयमुभयात्मकमस्तु, लक्ष्यतेऽनेनेति लक्षणं 'पर्यवाणां' वक्ष्यमाणरूपाणां 'तुः' विशेषणे 'उभयोः' द्वयोः प्राकृतत्वाद् द्रव्यगुणयोराश्रिताः भवेत्ति 'भवेयुः' स्युः । अनेन च य एवमाहुः-यदाद्यन्तयोरसत् मध्येऽपि तत्तथैव, यथा मरीचिकादौ जलादि, न सन्ति च कुशूलकपालाद्यवस्थयोघंटादिपर्यायाः, ततो द्रव्यमेवादिमध्यान्तेषु सत्, पर्यायाः पुनरसत्यैराकाशकेशादिभिः सदृशा अपि भ्रान्तः सत्यतया लक्ष्यन्ते, यथोक्तम्-"आदावन्ते च यन्नास्ति, मध्येऽपि हि न तत्तथा। वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः॥१॥" तेऽपाकृताः, तथाहि-आद्यन्तयोरसत्त्वेन Jain Education Intel For Private & Personel Use Only A jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy