SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. मोक्षमार्ग बृहद्वृत्तिः गत्य०२८ ॥५५७॥ एयं पंचविहं नाणं, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं, नाणं नाणीहिं देसियं ॥५॥ 'एतद्' अनन्तरोक्तं पञ्चविधं ज्ञानं द्रवन्ति-गच्छन्ति तांस्तान् पर्यायानिति द्रव्याणि-वक्ष्यमाणलक्षणानि तेषां, 'चः' तद्गतानेकभेदख्यापको, गुणानां-रूपादीनां चः प्राग्वत . परीति-सर्वतः, कोऽर्थः ?-द्रव्येषु गुणेषु सर्वेष्ववन्ति-गच्छन्तीति पर्यवास्तेषां च, 'सर्वेषाम्' अशेषाणां, केवलापेक्षया चायं द्रव्यकात्स्न्यै सर्वशब्दः शेषज्ञानापेक्षया तु प्रकारकारुये, प्रतिनियतपर्यायग्राहित्यात्तेषां, 'ज्ञानम' अवबोधकं 'ज्ञानिभिः' अतिशयज्ञानोपतः केवलिभिरितियावत् 'देशितं' कथितम् । अनेन च यदाहः-ज्ञानं ज्ञानवरूपस्यैव ग्राहकं, बाह्याभिमतस्य वस्तुनो ज्ञानातिरिक्तस्यासत्त्वाद् , अत एवोक्तं-'खरूपस्य खतो गति'रिति, तन्निरस्तम . अन्तः सुखादिप्रतिभासवदहिः स्थूलप्रति|भासस्यापि स्वसंविदितत्वात्, न च युगपद्वद्यमानयोरेकस्य तात्त्विकत्वमितरस्य वन्यथात्वमिति निमित्तं विना कल्पयितुं शक्यम् , अथैकत्राविद्योपदर्शितत्वं तत्कल्पननिमित्तं. न, यतस्तदितरत्रापि किं न कल्प्यते', निमित्त विना कल्पनाया उभयत्राविशेषात्, तथा च ज्ञानस्याप्यभावेन सर्वशन्यतापत्तिरित्यलं प्रसङ्गेनेति सूत्राथः ॥ अनन द्रव्यादिविषयत्वं ज्ञानस्योक्तं, तत्र च द्रव्यादीनि किंलक्षणानीत्यत आह गुणाणं आसओ दवं, एगदब्वस्सिया गुणा । लक्खणं पजवाणं तु, उभओ अस्सिया भवे ॥ ६॥ 'गुणानां' वक्ष्यमाणानाम् 'आश्रयः' आधारो यत्रस्थास्त उत्पद्यन्ते उत्पद्य चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम्,४ ॥५५७॥ For Private 8 Personal Use Only in Education intomation www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy