________________
दिभिरक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वाऽर्थ विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह भावश्रुतं श्रुतशब्देनोक्तं, तथाऽभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियतः खस्खविषयपरिच्छेदकतयाऽवबोधः-अवगमोऽभिनिबोधः | स एवाभिनिवोधिकं,विनयादित्वात्स्वार्थिकष्ठक, ओहि'त्ति अवशब्दोऽधःशब्दार्थः, ततश्चाध इत्यधस्ताद्धावति अधोऽधी विस्तृतविषयवेदकतयेत्यवधिः, औणादिको डिः, यद्वा 'अवे'त्यध एव धानं धातूनामनेकार्थत्वात्परिच्छेदोऽवधिः,
'उपसर्गे घोः कि'रिति (पा०३-३-९२)किः,अथवाऽवधिः-मर्यादा रूपिष्वेव द्रव्येषुपरिच्छेदकतया प्रवृत्तिरित्त्येवंरूपा, हैं तदुपलक्षितं ज्ञानमप्यवधिः,ज्ञायतेऽनेनेति ज्ञातिर्वा ज्ञानं,ततोऽवधिश्चासौ ज्ञानं चावधिज्ञानं,तृतीयं तृतीयस्थानवर्तित्वात् , मणणाणं'तिमनःशब्देन द्रव्यपर्याययोः कथञ्चिदभेदात मनोद्रव्यपर्याया गृह्यन्ते,तेषु तत्तत्सज्ञिविकल्पहेतुपु ज्ञानं मनोज्ञानं, तानेव हि मनःपर्यायज्ञानी साक्षादेव बुध्यते,न तु बाह्यान् ,अनुमानगम्यमानत्वात्तेषाम् ,उक्तं हि-"जाणति | बज्झेऽणुमाणाओ"त्ति, 'चः' समुच्चये भिन्नमस्ततः केवलं च, तत्र केवलम्-एकमकलुपं सकलमसाधारणमनन्तं च ज्ञानमिति प्रक्रमः, उक्तं हि-"केवलमेगं सुद्धं सकलमसाधारणं अणंतं च ।" आह-नन्द्यादिपु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तं तदिह किमर्थमादित एव श्रुतोपादानम् ?, उच्यते, शेषज्ञानानामपि खरूपज्ञानस्य प्रायस्तदधीनत्वेन 2 प्राधान्यख्यापनार्थमिति सूत्रार्थः॥ साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद्येषां तज्ज्ञानं तान्यभिधातुमाह
१ जानाति बाह्याननुमानात् २ केवलमेकं शुद्धं सकलमसाधारणमनन्तं च ।
Jain Education in
For Private & Personel Use Only
W
w.jainelibrary.org