SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ णिक्खवेत्यादि गाथाः पट प्रतीतार्था एव, नवरं 'तवइरित्ते य नियलमाईसुत्ति तद्यतिरिक्तश्च निगडादिभ्यः, आदिशब्दात्कारागृहादिपरिग्रहः, सूत्रत्वाच पञ्चम्यर्थे सप्तमी, इह च निगडादीनां द्रव्यत्वात्तन्मोक्षोऽपि द्रव्यमोक्ष उक्तः, अष्टविधकर्मणा-ज्ञानावरणादिना मुक्तः-त्यक्त आत्मेति गम्यते ज्ञातव्यो भावतो मोक्षः, कथञ्चिव्यपर्याययोरनन्यत्वख्यापनार्थमित्वमुक्तम् , अन्यथा हि क्षायिकभाव एवात्मनो मुक्तत्वलक्षणो मोक्ष इत्युच्यते, आह-कर्मणोऽपि द्रव्यत्वात्कर्मक्षयलक्षणत्वाचास्य कथं न द्रव्यमोक्षता ?, उच्यते, इह द्रव्यस्याविवक्षितत्वात्क्षायिकभावरूपस्यैव चास्याश्रितत्वान्न दोपः, अथवा भावशब्दोऽत्र परमार्थवचनः, तथा च वक्तारो भवन्ति-अयमत्र भावः-अयमत्र परमार्थ इत्यर्थः, ततश्चास्यैवैकान्तिकात्यन्तिकत्वेन तात्त्विकत्वाद्भावमोक्षत्वम् , इतरस्य तु तद्विपरीतत्वाद् द्रव्यमोक्षत्वमित्यनवकाश एव प्रेरणायाः, 'तवइरित्ते य जलथलाईसुन्ति जलस्थले-प्रतीते आदिशब्दादुभयपरिग्रहस्तेषु प्रक्रमाद्यो मार्गः। स तयतिरिक्तो द्रव्ये मुणितव्य इति संटकः, भावे ज्ञानदर्शनतपश्चरणगुणा जीवपर्यायत्वान्मुक्तिपदावाप्तिनिमित्ततया च मुणितव्यो मार्ग इति प्रक्रमः । 'तवइरित्ते य पोग्गलाईसुन्ति सूत्रत्वात्तद्यतिरिक्ता च प्रक्रमाव्यगतिः पुद्गलादिपु, आदिशब्दाजीवपरिग्रहः, व्यक्तिभेदविवक्षया च बहुवचननिर्देशः, द्रव्यत्वं चास्या द्रव्यप्राधान्यविवक्षया, अन्यथा हि पुलादिपर्यायत्वाद्तेर्भावरूपतव, यदिवा द्रव्यस्य गतिः द्रव्यगतिरिति पष्ठीसमासाश्रयणान्न दोषः, भावे उत्तराध्य.९३ For Private Personal Use Only W ww.jainelibrary.org INThal
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy