SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. त्राख्यम्. बृहद्वृत्तिः ॥५१४॥ तु कथमासामिति संशये समितीना पञ्चत्वं गुप्तीना च त्रिकत्वमुक्तम् आहिया' इति आख्याताः-कथिताः, प्रवचनमातीर्थकृदादिभिरिति गम्यते, ता एव नामग्राहमाह-ईरणमीर्या-गतिपरिणामो भाषणं भाषा एषणमेषो-गवेषणं तं करोतीति णिक ततः स्त्रीलिङ्गे भावे युटि एषणा आदानं-ग्रहणं पात्रादेः निक्षेपोपलक्षणमेतत् तत एषां समाहारे ईभाषणादानं तस्मिन् , 'उच्चारे समिई इय'त्ति चस्य भिन्नक्रमत्वादुच्चारशब्दस्य चोपलक्षणत्वादुच्चारादिपरिष्ठापनायां च समितिः, अस्य च प्रत्येकमभिसम्बन्धादर्यासमितिरित्यादिरभिलापो विधेयः, 'इति' परिसमाप्तौ, एतावत्य एव समितयः, तथा मनसो गुप्तिमनोगुप्तिरिति तत्पुरुषः, एवमुत्तरयोरपि, निगमनमाह-एताः' इत्यनन्तरोक्ताभिधाना अष्ट समितयो, गुप्तीनामपि 'प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं गुप्ति'रिति वचनाकथञ्चित्सच्चेष्टात्मकत्वात्समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः, यत्तु भेदेनोपादानं तत्समितीनां प्रवीचाररूपत्वेन गुप्तीनां प्रवीचाराप्रवीचारात्मकत्वेनान्योऽन्यं कथञ्चिद्भेदात् , तथा चागमः-"समिओ णियमा गुत्तो गुत्तो समियत्तगंभि भइयो । कुसलबइमुदीरतो जं वइगुत्तोऽवि समिओऽवि ॥ १॥" 'समासेन' सकलागमसङ्ग्रहेण व्याख्याताः, जिनाख्यातं मातम् उत्तरत्र तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वात् 'मातमेव' अन्तर्भूतमेव 'यत्र' इति यासु 'प्रवचनम्' आगमः, तथाहि-ईर्यासमिती प्राणातिपातविरमणव्रतमवतरति, तद्वृत्तिकल्पानि च शेषव्रतानि तत्रैवान्त१ समितो नियमाद्गुतो गुप्तः समितत्वे भक्तव्यः । कुशलवच उदीरयन् यद्वचोगुप्तोऽपि समितोऽपि ॥ १॥ 1५१४॥ Jain Educaton inte For Private & Personel Use Only Marjainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy