________________
अथ सप्तविंशं खलुकीयमध्ययनम् ।
व्याख्यातं पडिशमध्ययनं, सम्प्रति सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सामाचारी प्रतिपादिता, सा चाशठतयैव पालयितुं शक्या, तद्विपक्षभूतशठताज्ञान एव च तद्विवेकेनासौ ज्ञायत इत्याशयेन दृष्टान्ततः शठताखरूपनिरूपणद्वारेणाशठतैवानेनाभिधीयत इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ने निक्षेपे खलुङ्कीयमिति नाम, अतः खलुङ्क [नामतः खल्लुक] निक्षेपायाह नियुक्तिकृत्
निक्लेवो खलुकमि चउविहो ॥४८७ ॥ जाणगसरीरभविए तत्वइरित्ते बइल्लमाईसुं । पडिलोमो सवत्थेसु भावओ होइ उ खलुको ॥ ४८८ ॥ है 'निक्खेवो'गाथाद्वयं व्याख्यातप्रायमेव, नवरं बलीवर्दादिष्वित्यादिशब्देनाश्चादिपरिग्रहः, निर्धारणे चेयं सप्तमी,
ततो बलीवादिषु यो गल्यादिरिति गम्यते स द्रव्यतः खलुक इति, 'प्रतिलोमः' प्रतिकूलः सर्वार्थेषु, पाठान्तरतः 'सर्वस्थानेषु' ज्ञानादिषु भावतो भवति खलुङ्क इति गाथाद्वयार्थः॥ तद्वयतिरिक्तद्रव्यखलुङ्कखरूपमाह
Jain Education int.in
For Private
Personal Use Only
Harjainelibrary.org