SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education 'पाणिदयातव हे उं 'ति 'प्राणिदया हेतोः' वर्षादौ निपतत्यप्कायादिजीवरक्षायै तपः - चतुर्थादिरूपं तद्धेतोच, तथा | शरीरस्य व्यवच्छेदः - परिहारस्तदर्थं च उचितकाले संलेखनामनशनं वा कुर्वन्, भक्तपानगवेषणं न कुर्यादिति सर्वत्र योज्यं, कारणत्वभावना चामीषां प्राग्वत्, तद्वद्वेषणां च कुर्वन् केन विधिना कियत्क्षेत्रं पर्यटेदित्याह -- ' अवशेषं ' | भिक्षाप्रक्रमात्पात्रनिर्योगोद्धरितं चशब्दस्य गम्यमानत्वादवशेषं च पात्रनिर्योगमेव, यद्वाऽपगतं शेषमपशेषं, | कोऽर्थः ? - समस्तं, 'भाण्डकम् ' उपकरणं 'गिज्झ'त्ति गृहीत्वा चक्षुषा प्रत्युपेक्षेत, उपलक्षणत्वात्प्रतिलेखयेच्च, इह च विशेषत इति गम्यते, सामान्यतो प्रत्युपेक्षितस्य ग्रहणमपि न युज्यत एव यतीनाम् उपलक्षणत्वाच्चास्य तदा - दाय 'परम्' उत्कृष्टम् 'अर्धयोजनात्' अर्धयोजनमाश्रित्य ल्यब्लोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि भवेत्, | विहरन्त्यस्मिन् प्रदेश इति विहारस्तं 'विहरए 'त्ति विहरेत् — विचरेन्मुनिः । इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत्कुर्यात्तदाह - चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वकं बद्धा 'भाजनं' पात्रं स्वाध्यायं ततः कुर्यात् सर्वभावा - जीवादयस्तेषां विभावनं (कं) - प्रकाशकं सर्वभावविभावक, पठ्यते च - 'सवदुक्खविमोक्खणं' ति प्राग्वत्, पौरुप्याः प्रक्रमाच्चतुर्थ्याः चतुर्भागे-चतुर्थांशे शेष इति गम्यते, वन्दित्वा 'ततः' इति | स्वाध्याय करणादनन्तरं 'गुरुम् ' आचार्यादि प्रतिक्रम्य कालस्य 'शय्या' वसतिं 'तुः' पूरणे प्रतिलेखयेत्, ततश्च 'पास - वणुच्चारभूमिं चत्ति, भूमिशब्दस्य प्रत्येकमभिसम्बन्धात् प्रश्रवणभूमिं उच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिकां For Private & Personal Use Only w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy