SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सामाचा उत्तराध्य. बृहद्वृत्तिः ॥५४॥ यध्ययनं. जीवितनिमित्तम्, अविधिना ह्यात्मनोऽपि प्राणोपक्रमणे हिंसा स्याद् , अत एवोक्तम्-"भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणंमि परंमि य तो वजे पीडमुभओऽवि ॥१॥" षष्ठं पुनरिदं कारणम्-यदुत धर्मचिन्तायै च, भक्तपानं गवेषयेदिति सर्वत्रानुवर्तते, अत्र च धर्मचिन्ता-धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा,इयं बुभ| यरूपाऽपि तदाकुलितचेतसो न स्यात् ,आर्तध्यानसम्भवात् ,इह च यद्यपि वेदनोपशमनादीनां शाब्द्या वृत्त्या तदुपलक्षितभोजनफलत्वेन प्रतीतिस्तथाऽपि तैर्विना तनिषेधसूचनादा• वृत्त्या कारणत्वमेवैषामुपदर्शितं भवति, अत एव षष्ठमित्यत्र कारणमेव सम्बन्धितम् , आह-एतत्कारणोत्पत्तौ किमवश्यं भक्तपानगवेषणं कर्त्तव्यमुतान्यथेत्याह| 'निग्रन्थः' यतिः धृतिमान् धर्मचरणं प्रति 'निर्ग्रन्था' तपखिनी साऽपि न कुर्याद्भक्तपानगवेषणमिति प्रक्रमः, पश्चैिव स्थानः 'तुः' पुनरर्थे 'एभिः' अनन्तरं वक्ष्यमाणैः, किमित्येवमत आह-'अणइक्कमणाइ'त्ति सूत्रत्वाद् 'अनतिक्रमणं' संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, यस्मात् 'से'त्ति तस्य निर्ग्रन्थस्य तस्या वा निर्ग्रन्थतायाः (मध्याः) 'भवति' जायते,अन्यथा तदतिक्रमणसम्भवात्। षट् स्थानान्येवाह-आतङ्को-ज्वरादिरोगस्तस्मिन् , 'उपसर्ग'मिति खजनादिः कश्चिदुपसर्गमुनिष्क्रमणार्थ करोति, विमर्शादिहेतोर्वा देवादिः, ततस्तस्मिन् सति, उभयत्र तन्निवारणार्थमिति गम्यते, तथा तितिक्षा-सहनं तया हेतुभूतया, क विषये इत्याह-ब्रह्मचर्यगुप्तिपु, ता हि नान्यथा सोढुं शक्याः , तथा १ भावितजिनवचनानां ममतारहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत्पीडामुभयोरपि ।। १ ॥ ॥५४३॥ Jan Education Intemama For Private Personel Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy