________________
जीवरक्षार्थत्वात्प्रतिलेखनायास्तकाले च प्रमादजनकत्वेन हिंसाहेतुत्वान्मिथः कथादीनां परिहार्यत्वमुक्तम् । इत्थं प्रथमपौरुषीकृत्यमुक्तं, तदनन्तरं द्वितीयपौरुषीकृत्याभिधानावसरः,तच "बीए झाणं झियायई" इति वचनेन ध्यानमुक्तम् ,उभयं चैतदवश्यकर्त्तव्यमतस्तृतीयपौरुषीकृत्यमप्येवमुत कारण एवोत्पन्ने ? इत्याशझ्याह-'तइए'इत्यादि सुगम, नवरमौत्सर्गिकमेतत् , अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं, तथा चाह-'सइकाले चरे |भिक्खू'त्ति, षण्णां कारणानाम् 'अन्नयरायंमित्ति अन्यतरस्मिन् कारणे 'समुत्थिते' संजाते, न तु कारणोत्पत्तिं विनेति भावः, भोजनोपलक्षणं चेह भक्तपानगवेषणं, गुरुग्लानाद्यर्थमन्यथाऽपि तस्य सम्भवात्, तथा चान्यत्र भोजन एवैतानि कारणान्युक्तानि, तान्येव षट् कारणान्याह-वेयण वेयावचे'त्ति,सुब्व्यत्ययाद् वेदनाशब्दस्य चोपलक्षणत्वात्क्षुत्पिपासाजनितवेदनोपशमनाय,तथा क्षुत्पिपासाभ्यां(परिगतो)न गुर्वा दिवैयावृत्त्यकरणक्षम इति वैयावृत्त्याय. तथा 'ईयें'ति ईर्यासमितिः सैव निर्जरार्थिभिरर्यमानतयाऽर्थस्तस्मै, 'चः' समुच्चये, कथं नामासौ भवत्विति ?, इतरथा हि क्षुत्पिपासाभ्यां पीडितस्य चक्षुामपश्यतः कथमिवासौ स्यादिति ?, तथा संयमार्थाय कथं नामासौ। पालयितुं शक्यतामिति ?,आकुलितस्य हिताभ्यां सचित्ताहारे तद्विघात एव स्यात् ,तथा 'पाणवत्तियाए'त्ति प्राणप्रत्ययं
१ स्मृतिकाले चरेद् भिक्षुः. ४ प्रयोजनोप०
उत्तराध्य.९१
Jain Education
For Private & Personel Use Only
Silw.jainelibrary.org