SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ भा'कालाध्वनोरत्यन्तसंयोगे'(पा०२-३-५)इति द्वितीया, तृतीयायां भिक्षाची, पुनश्चतुर्थी खाध्यायम् , उपलक्षणत्वा तृतीयायां भोजनबहिर्गमनादीनि, इतरत्र तु प्रतिलेखनास्थण्डिलप्रत्युपेक्षणादीनि गृह्यन्ते, इत्थमभिधानं च कालापेक्षयैव कृष्यादेवि सकलानुष्ठानस्य सफलत्वादिति सूत्रद्वयार्थः।। यदुक्तं प्रथमपौरुषी स्वाध्यायं कुर्यात्तत्परिज्ञानार्थमाह| आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरसी ॥१३॥ अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वहुए हायए वावि, मासेणं चउरंगुलं ॥ १४ ॥ आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य नायव्वा ओमरत्ता उ ॥१५॥ तत्र प्रथमं प्रतीतमेव, द्वितीयमपि तथैव, नवरं सप्तरात्रेणेति दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने हीयत उत्तरायणे, इह च सप्तरात्रेणेत्यत्र सार्द्धनेति विशेषो द्रष्टव्यः, पक्षेण बङ्गुलवृद्ध्यभिधानात् , अन्यच केपुचिन्मासेषु दिनचतुर्दशकेनापि पक्षः संभवति, तत्र च सप्ताहोरात्रेणाप्यङ्गुलवृद्धिहान्या न कश्चिद्दोषः ॥ केषु पुनर्मासेषु दिनचतुर्दशकेनापि पक्षसम्भव इत्याह- आसाढे'त्यादि, इदमपि सुगममेव, नवरं बहुलपक्ष इति भाद्रपदादिष्वपि प्रत्येकमभिसम्बध्यते, ततः 'आसाढे'त्ति आषाढे बहुलपक्षे भाद्रपदादिषु च बहुलपक्षे 'ओम'त्ति 'अवमा' न्यूना एकेनेति शेषः, 'रत्त'त्ति पदैकदेशेऽपि पदप्रयोगदर्शनादहोरात्राः, एवं चैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः, इदं च व्यवहारतः पौरुषीमानं,निश्चयतस्तु, "अयणाईयदिनगणे अट्टगुणेगट्ठिभाइए लद्धं । उतराध्य.९० Jain Education Interrand For Private & Personel Use Only Mainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy