________________
सामाचार्यध्ययनं.
उत्तराध्य. IXमेव भाण्डकं ततस्तदिव धर्मद्रविणोपार्जनाहेतुत्वेन मुखवस्त्रिकावर्षाकल्पादीह भाण्डकमुच्यते, तत्प्रतिलेख्य वन्दित्वा
तेच ततो गुरुं पृच्छेत् , शेषं प्राग्वत् , उपलक्षणं चैतद्-यतः सकलमपि कृत्यं विधाय पुनरभिवन्दनापूर्वकं प्रष्टव्या एव बृद्धृत्तिः
गुरव इति, एवं च पृष्ट्वा यत्कर्त्तव्यं तदाह-वैयावृत्त्ये 'नियुक्तेन' व्यापारितेन कर्त्तव्यं प्रक्रमात् वैयावृत्त्यम् , 'अगि॥५३६॥ लायउ'त्ति अग्लान्यैव शरीरश्रममविचिन्त्यैवेतियावत् , खाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे, सकलतपःकर्म
प्रधानत्वादस्य, खाध्यायोऽग्लान्यैव कर्तव्य इति प्रक्रम इति सूत्रत्रयार्थः ॥ इत्थं सकलौघसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदाविधेयत्वाद्दरुपारतव्यस्य तच्चाभिधायौत्सर्गिकं दिनकृत्यमाहदिवसस्स चउरो भागे, कुजा भिक्खू वियक्खणो। तओ उत्तरगुणे कुजा, दिणभागेसु चउमुवि ॥११॥ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई । तइयाए भिक्खायरियं, पुणो चउत्थीइ सज्झायं ॥१२॥
सूत्रद्वयं स्पष्टमेव, नवरं चतुरो भागान् कुर्याद् बुद्ध्येत्युपस्कारः, 'तत' इति चतुर्भागकरणादनन्तरमिति गम्यते उत्तरगुणान् मूलगुणापेक्षया खाध्यायादींस्तत्कालोचितान् 'कुर्याद्' विदध्यात्, क्व दिनभागे कमुत्तरगुणं कुर्यादित्याहप्रथमां पौरुषी 'स्वाध्यायं' वाचनादिकं, सूत्रपौरुषीत्वादस्याः, कुर्यादितीहोत्तरत्र च क्रियान्तराभावेऽनुवर्त्यते, द्वितीयां प्रक्रमात्पौरुषी ध्यानं 'झियायइत्ति ध्यायेत्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वाऽनेकार्थत्वाद्धातूनां कुर्यात्, इह च प्रतिलेखनाकालस्याल्पत्वेनाविवक्षितत्वादुभयत्र
CHA%ॐॐ
20
॥५३६॥
Jain.Education Inths
For Private
Personel Use Only