SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ HOROSCOCOGEOROSCOL-RESCAROGRESO पुचिल्लंमि चउभागे, आइच्चमि समुहिए। भंडयं पडिलेहित्ता, वंदित्ता य तओ गुरुं ॥८॥ पुच्छिज्जा पंजलिउडो, किं कायव्वं मए इहं ? । इच्छं निओइउं भंते !, वेयावच्चे व सज्झाए ॥९॥ वेयावच्चे निउत्तेणं, कायव्यमगिलायओ। सज्झाए वा निउत्तेणं, सव्वदुक्खविमुक्खणे ॥१०॥ __ 'पुविलंमित्ति पूर्वस्मिंश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते, इह च यथा दशाविकलोऽपि पटः पट एवोच्यते, एवं किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थः-बुद्धा नभश्चतुर्धा विभज्यते, तत्र पूर्वदिक्संबद्धे किश्चिदूननभश्चतुर्भागे यदादित्यः समुदेति तदा, पादोनपौरुष्यामित्युक्तं भवति, 'भाण्डकं' पतगृहाधुपकरणं 'प्रतिलेख्य' सामयिकपरिभाषया चक्षुषा निरीक्ष्योपलक्षणत्वात्प्रमृज्य च 'वन्दित्वा च नमस्कृत्य 'ततः' इति प्रतिलेखनानन्तरं 'गुरुम्' आचार्यादिकं, किमित्याह-'पृच्छेत्' पर्यनुयुजीत प्रक्रमाद्गुरुमेव 'पंजलिउड'त्ति प्राग्वत्कृतप्राञ्जलिः, यथा-कि 'कर्तव्यम्' अनुष्ठेयं 'मये त्यात्मनिर्देशः 'इह' अस्मिन् समये इति गम्यते, कदाचिद्गुरवो मन्येरन्-खाध्यायवैयावृदत्तयोरन्यतरस्मिन्नेवास्स नियोगे वान्छेत्यतो यात्-'इच्छामि णियोइउंति अन्तर्भावितण्यर्थत्वान्नियोजयितुं युष्मा भिरात्मानमिति शेषः 'भंते'त्ति भदन्त ! 'वेयावचे'त्ति वैयावृत्त्ये-ग्लानादिव्यापारे वाशब्दो भिन्नक्रमस्ततः 'सज्झाए'त्ति आर्पत्वात्स्वाध्याये वा, इह च पात्रप्रतिलेखनानन्तरं गुरुं पृच्छेदिति यदुक्तं तत्प्रायस्तदैव बहुतरवैयावृत्त्यविधानसम्भवात् , यद्वा पूर्वस्मिन्नभश्चतुर्भागे आदित्ये समुत्थिते इव समुत्थिते, बहुतरप्रकाशीभवनात्तस्य, भाण्ड CRACRORSCRECORM Jain Education Intel For Private & Personel Use Only w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy