SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ युरत्वरितगतयो-मन्दगतयस्ततो बकवृत्तिरियमेषामित्यादि, यथोक्तम्-"अविसहणाऽतुरियगती अणाणुवित्तीय अवि गुरूणंपि । खणमित्तपीइरोसा गिहिवच्छलगा य संजयग ॥१॥"त्ति, एवंविधमवर्ण वदितुम्-अभिधातुं शीलमस्येत्यवर्णवादी, माया-शाट्यमस्य खखभावविनिगृहनादिनाऽस्तीति मायी, यथोक्तम्-"गृहइ आयसहावं घायइ य गुणे परस्स संतेवि । चोरोब सवसंकी गूढायारो वितहभासि ॥२॥"त्ति किल्लिषिकीभावनां करोति । इदानी विचित्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽपि यत्कुर्वताऽऽसुरी कृता भवति तदाह-अनुबद्धः-सन्ततः, कोऽर्थः ?-९ अव्यवच्छिन्नो रोषस्य-क्रोधस्य प्रसरो-विस्तारोऽस्येति अनुबद्धरोषप्रसरः, सदा विरोधशीलतया पश्चादननुतापि तया क्षमणादावपि प्रसत्त्यप्राप्त्या वेत्यभिप्रायः, तथा चोक्तम्-"णिचं वोग्गहसीला काऊण ण याणुतप्पए पच्छा। है।ण य खामिओ पसीयइ अवराहीणं दुवेण्डंपि ॥३॥" 'तथेति समुच्चये 'चः' पूरणे निमित्तमिह ज्ञेयपरिच्छित्तिकारणं, तच्चातीतादित्रिविधकालभेदात्रिधा, उक्तं हि-"तिविहं होइ निमित्तं तीयपडप्पण्णऽणागयं चेव । तेण विणा | उ ण णेयं णजइ तेणं णिमित्तं तु॥४॥" तद्विपये 'भवति' जायते 'प्रतिसेवी' इत्यवश्यंप्रतिसेवकोऽपुष्टालम्बनेऽपि १ असहनात्वरितगतयोऽनानुवृत्तयश्चापि गुरूणामपि । क्षणमात्रप्रीतिरोषाः गृहिवत्सलाश्च संयताः ॥१॥२ गृहयत्यात्मस्वभावं घातयति च गुणान् परस्य सतोऽपि । चौर इव सर्वशङ्की गूढाचारो वितथभाषी ॥२॥ ३ नित्यं व्युदहशीलाः कृत्वा न चानुतपति पश्चात् । न च क्षमितः प्रसीदति अपराधिनां (उपरि) द्वयोरपि ॥ ३॥ ४ त्रिविधं भवति निमित्तं अतीतप्रत्युत्पन्नानागतमेव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु ॥४॥ उत्तरा.११९ Jain Education Inte For Private & Personel Use Only finelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy