________________
उत्तराध्य. बृहद्वृत्तिः
जीवाजीव विभक्तिः
३६
॥७११॥
RECORRECERS
तदासेवनात् , 'एताभ्याम्' अनन्तरोक्ताभ्याम् 'आसुरिय'ति आसुरी भावनां करोति । शस्यतेऽनेनेनि शस्त्रं-खगक्षुरिकादि तस्य ग्रहणं-खीकरणमुपलक्षणत्वादस्यात्मनि वधार्थ व्यापारणं शस्त्रग्रहणं, वेवेष्टि-व्याप्नोति झगित्यात्मानमिति विष-तालपुटादि तस्य भक्षणम्-अभ्यवहरणं विपभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलन' दीपनमा-16 त्मन इति गम्यते, जले प्रवेशो-निमजनं जलप्रवेशः, चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारः-शास्त्रविहितो व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथाऽनाचारभाण्डं तस्य सेवा-हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा, गम्यमानत्वादेतानि कुर्वन्तो यतयः, किमित्याह-जन्ममरणान्युपचारात्तन्निमित्तकर्माणि 'बन्नन्ति' आत्मना श्लेषयन्ति, संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् , अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोही भावनोक्ता, यतस्तल्लक्षणम्-"उम्मग्गदेसओ मग्गनासओ मग्गविप्पडिवत्ती ।। मोहेण य मोहित्ता संमोहं भावणं कुणइ ॥१॥"त्ति, ननु पूर्व तद्विधदेवगामित्वं भावनाफलमुक्तमिह त्वन्यदेवास्या इति न कथं विरोधः १, उच्यते, अनन्तरफलमाश्रित्य तदुदितमिदं [दमेव चूण्ा दृश्यते, तत्रैव जीवेत्यादि] तु परम्पराफलं सर्वभावनानामिति भावनार्थमित्थमुपन्यासः, तथा चोक्तम्-"एयाओ भावणाओ भाविता देवदुग्गई
१ उग्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिः । मोहेन च मोहयित्वा संभोही भावनां करोति ॥१॥२ एता भावना भावयित्वा देवदुर्गतिं
॥७११॥
Jain Education that
For Private & Personel Use Only
A
jainelibrary.org