________________
Jain Education
सोणिएसु वा सुकेसु वा सुकपुग्गलपरिसाडेसु वा विगयकडेवरेसु वा थी पुरिससंजोएस वा गामनिद्धमणेसु वा णगरणिद्धमणेसु वा सचेसु चेव असुइठाणेसु इत्थ णं संमुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखेज्जइभागमेत्ताए ओगाहणाए" इत्यादि, पल्योपमानि त्रीण्यायुःस्थितिरिति युगलधार्मिंकापेक्षया । कार्यस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाधिकानीति गम्यते, एतच तिर्यक्कायस्थित्यभिहिताभिप्रायेण विज्ञेयम्, अन्तरस्य चानन्तकालत्वं साधारण वनस्पतिकायस्थित्यपेक्षयेतिसूत्रनवकार्थः ॥ इत्थं मनुष्यानभिधाय देवानाह -
देवा चव्वा त्ता, ते मे कित्तयओ सुण । भोमिजवाणमंतर जोइस वेमाणिया तहा ॥ २०२ ॥ 'देवाः' उक्तनिरुक्ताः 'चतुर्विधाः' चतुष्प्रकारा उक्तास्तीर्थकरादिभिरिति गम्यते, 'ते' इति तान् देवान् 'मे' मम 'कीर्त्तयतः' प्रतिपादयतः 'शृणु' आकर्णय, शिष्यं प्रतीदमाह, तत्कीर्त्तनं च न भेदाभिधानं विनेति तद्भेदानाह - 'भोमिज्ज' त्ति भूमौ - पृथिव्यां भवाः भौमेयकाः - भवनवासिनो, रत्नप्रभा पृथिव्यन्तर्भूतत्वात्तद्भवनानाम्, उक्तं हि-" इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहित्ता हेट्ठा
१ शोणितषु वा शुक्रेषु वा शुक्रपुद्गलपरिशाटेषु वा विगतकलेवरेषु वा स्त्रीपुरुषसंयोगेषु वा ग्रामनिर्धमनेषु वा नगरनिर्धमनेषु वा सर्वेष्वेवाशुचिस्थानेषु अत्र संमूच्छिममनुष्याः संमूर्च्छन्ति अङ्गुलस्यासंख्याततमभागमात्र याऽवगाहनया २ अस्या रत्नप्रभायाः पृथ्व्या अशीत्युत्तरयोजनशतसहस्रबाहुल्याया उपर्येकं योजनसहस्रं अवगाह्याधस्ता
For Private & Personal Use Only
www.jainelibrary.org