SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥७००॥ Jain Education | इति नाम, द्वितीयस्य हयकर्णो १ गजकर्णी २ गोकर्णः ३ शष्कुलीकर्णः ४, तृतीयस्य आदर्शमुखो १ मेषमुखो २ हयमुखो ३ गजमुखः ४, चतुर्थस्याश्वमुखो १ हस्तिमुखः २ सिंहमुखो ३ व्याघ्रमुखः ४, पञ्चमस्याश्वकर्णः १ सिंहकर्णः २ गजकर्णः ३ कर्णप्रावरणः ४, पष्ठस्योल्कामुखो १ विद्युन्मुखो २ जिह्वामुखो ३ मेघमुखः ४, सप्तमस्य घनदन्तो १ गूढदन्तः २ श्रेष्ठदन्तः ३ शुद्धदन्त ४ इति, एतन्नामान एव चैतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छ| रीरमानाद्यभिधायि चेदं गाथायुगलम् - "अंतरदीवेसु णरा धणुसय असिया सया मुद्दया । पालंति मिहुणभावं पलस्स असंखभागाऊ ॥ १ ॥ चउसट्टी पिट्ठकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स अउणसीइदिगाण पालणया ॥ २ ॥” एतेऽपि शिखरिणोऽपि पूर्वापरप्रान्तविदिक्प्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, पूर्वस्माच्चैषां भेदेनाविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्यविरोध इति भावनीयम् । संमूर्तिमानाम् 'एष एव' इत्यकर्म - भूमादिगर्भजानां य उक्तः 'भेदः' नानात्वं भवत्याख्यातः, ते हि तेषामेव वान्तपित्तादिषु संभवन्ति, तथा चागमः - “गैब्भवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा पूएसु वा १ अन्तरद्वीपेषु नरा धनुःशताष्टोच्छ्रिताः सदा मुदिताः । पालयन्ति मिथुनभावं पल्यस्यासंख्यभागायुषः ॥ १ ॥ चतुःषष्टिः पृष्ठकरण्डकानां मनुजानां तेषामाहारः । भक्तेन चतुर्थेन एकोनाशीतिदिनानि पालनम् ॥ २ ॥ २ गर्भव्युत्क्रान्तिकमनुष्याणामेव उच्चारेषु वा प्रश्रवणेषु वा श्लेष्मसु वा सिङ्घाणेषु वा वान्तेषु वा पित्तेषु वा पूयेषु वा For Private & Personal Use Only जीवाजीव विभक्ति० ३६ ॥७००॥ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy